________________
[है० २.४.१०७.]
पञ्चमः सर्गः।
३६९
निःशकिकैलिष्ट रणामात्यिका पत्तिसंहतिः। द्विके युत्सूतिके तूणे द्वके श्रीसूतके भुजे ॥ १२ ॥ १२. पत्तिसंहतिर्मूलराजपदातिपतिर्युत्सूतिके युधो युद्धस्य सूतिके अज्ञाते सूते जननीतुल्ये जनितयुद्धे इत्यर्थः । द्विके अमेयशरंभृतत्वेनाज्ञाते द्वे तूणे तूणीरौ । तथा श्रीसूतके विजयलक्ष्मीजनन्यौ दुके अमेयबलत्वेनाज्ञाते द्वे भुजे बाहू चैक्षिष्ट। यतो निःशङ्किकाज्ञाता निर्भया शूरेत्यर्थः । तथा रणामायिका युद्धविषयेज्ञाता मत्रिणी । यथा राजादिरमात्यिकाभिप्रायेण प्रवर्तत एवं रणकर्मप्रवीणत्वाद्यदभिप्रायेण रणं प्रवर्तत इत्यर्थः ।।
एषिका पुत्रिका मृत्योरेषका नासिपुत्रका ।
वृन्दारिका वृन्दारकापतिदेत्याददे भटैः॥ १३॥ १३. भटैराददे गृहीतासिपुत्रकैव । हेतुमाह । एषका प्रत्यक्षा । कृत्रिमः पुत्रः सूनुः “पुत्राणु" [७.३.२३] इति के पुत्रकः । स्त्री चेत्पुत्रका । असेः पुत्रकेवासिपुत्रका क्षुरिका । नासिपुत्रका न टुरिका । असिपुत्रकाशब्दः पुनरावय॑ते । किं तर्हि । एषिका मृत्योर्यमस्य पुत्रिका । यतो वृन्दारकापतीन्देवीनाथान्देवानपि द्यति खण्डयति । यद्वा । वृन्दारकाभ्यो देवीभ्यः पतिं ददाति या । अनया हि हताः सन्तोप्सरोभित्रियन्त इति । सा मृत्युहेतुरित्यर्थः । ईदृश्यपि कुत इत्याह । यतो वृन्दारिकातितक्ष्ण्यचन्द्रिकाधिष्ठितत्वादिना प्रशस्येति ।।
स्त्रिका स्वका । जयस्विका ओजःस्वका । ज्ञिका ज्ञका । अजिका अजकाम् । सेषुभस्त्रिका साम्बुभस्त्रका ॥ यकार । क्षत्रियिकाः क्षत्रियका ॥ ककार ।
१एत्रकाः । वृ.
१ सी रभूत°. २ ए सी डी पुत्रिकै. ३ ए बी सी डी न्दारिका'. ४ ए बी सी डी °न्दारिका. ५ ए सी रोमि बियं. ६ बी चण्डिका. ७ ए सी डी 'यिका । क्ष,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org