SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३६८ व्याश्रयमहाकाव्ये [ मूलराजः ] विजयः सूचितः शुभनिमित्तत्वात् । कीदृशी । युद्धे रणकर्मणि ज्ञिकाज्ञातपण्डिता तथा यते निषादिनां पादकर्मणि ज्ञका तथौजो बलं तेजो वा तदेव स्वं धनं यस्याः सात एव जय एव स्वं धनं यस्याः सात एवं सुरेभस्यैरावणस्य स्वकाज्ञातज्ञतिरिव तथानेकजन्तु संहारित्वाद्रौद्राकीरत्वाच्च मृत्योर्यमस्य स्विका ॥ अजिका चर्मपर्याणारं हन्तुमजकामिव । तत्वरेश्वचमूः सेषुभस्त्रिका साम्बुभत्रका || १० | 1 १०. अश्वचमूर्मूलराजीयाश्वसेनारिमैजकामिव कुत्सितां छागीमिव हन्तुं तत्वरे रयेणाचलत् । कीदृशी । अज्ञाता छाग्यजिका तस्यावर्मणा पर्याणं पल्ययनं यस्याः सा । तथा सेषवो बाणभृता भस्त्रास्तूणा यस्यां सा । तथा सहाम्बुभस्त्रया जलदृतिना वर्तते या सा । तथाज्ञाता साम्बुभखा साम्बुभस्त्रका ॥ क्षत्रियिकाः क्षत्रियकापुत्रांश्रटकिकाचटौ । द्विषच्चटक काश्येनानूचुः सुनयिका युधि ॥ ११ ॥ ११. क्षत्रियिका अज्ञातक्षत्रियस्त्रियो द्विषच्चटक काश्येनाव् शत्रुकुत्सितचटकासु श्येनतुल्यान् क्षत्रियकापुत्रान्क्षत्रियान्युधि युद्धार्थमूचुः युद्धं क्रियतामित्यूचुरित्यर्थः । कीदृश्यः सत्यः । अज्ञाताः सुनया: सुनयिका: शोभननीतिज्ञों अत एव चटौ चाटुवचने विषये चटकिका अज्ञातचटकातुल्याश्चाटुकारिण्यः । एतेन मूलराजीयक्षत्रियस्त्रीणामपि युद्धविषय उत्साह उक्तः ॥ १ बी 'काः ॥ २ एसी युधिः ॥ सी युधेर.. २ ए सी तेजे वा. वि. ५ सी सहा ६ ए सी ८ ए सी पत्य ९ डी टका Jain Education International ३ बी व च सु.. ४ ए सी ज्ञारिकारित्वा ७ ए बी सी डी 'मजिका. १० बी युक्तार्थ. ११ बी 'ज्ञात'. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy