________________
[है० २.४.१०६.] पञ्चमः सर्गः।
३६७ क्रीता: “खारीकाकणीभ्यः कच्” [६.४.१४९] इति कच् । तूणा निषङ्गा येषां ते । तथानाः स्वर्णमण्यादिविच्छुरितत्वेन निर्मूल्यास्तूणा येषां ते तथा । ततो द्वन्द्वः । केचित्खारीकातूणाकाः केचिच्चानऱ्यातूणका इत्यर्थः ।।
सुलक्ष्मीकाः । जितास्रपाकाः । सुशक्तीकाचमूकाः । खारीका । इत्यत्र "न कचि" [१०५] इति ह्रस्वो न ॥ खारीकातूणाकानय॑तूणकाः । इत्यत्र "न वापः" [१०६] इति वा ह्रस्वः ॥
जेतुं द्विट्सेनिकां स्कन्दसेनका इव भूभुजाम् । सेनाकाः कृत्निकाश्चक्रुर्दुर्गकाधिष्ठितास्त्वराम् ॥ ८॥ ८. कृत्निका अज्ञाताः सर्वा भूभुजां मूलराजनृपाणां सेनाका विशेषस्वामिसंबन्धित्वानवगमेनाज्ञातांश्चम्वो विटेनिकां द्विषो ग्राहारेः कुत्सितां सेनां जेतुं त्वरां वेगं चक्रुः। कीदृश्यः सत्यः । दुर्गकाधिष्ठिताः "ते लुग्वा" [३.२.१०८] इति देवीशब्दस्योत्तरपदस्य लोपे सकललोकवल्लभत्वेनानुकम्पिता दुर्गा "लुक्युत्तर" [७.३.३८.] इत्यादिना कमि(पि?) दुर्गका चामुण्डा । तयाधिष्ठिता अधिष्ठायकत्वेनाश्रिताः । स्कन्दसेनका इवेति स्कन्दस्य प्रियत्वादनुकम्पिता: सेना यथा द्विट्लेनिकां तारकदैत्यसेनां जेतुं त्वरां चक्रुः ॥
सेनिकाम् । सेनकाः । सेनाकाः । इत्यत्र “इच्च' [१०७] इत्यादिनेकारो हस्त्रश्च वा ॥ अपुंस इति किम् । कृत्निकाः । अनिदिति किम् । दुर्गका ॥
स्विका मृत्योः सुरेभस्य स्वकागर्जजयस्विका ।
ओजःस्वका गजघटा ज्ञिका युद्धे यते ज्ञका ॥९॥ ९. मूलराजीया गजघटागर्जद्गुलुलारवं चक्रे । एतेन राज्ञो भावी १ बी णाका के. २ ए बी सी सुशक्तीका । जितास्रपाकाः । सुलक्ष्मीकाः । सुशक्तीका च. ३ बी ताश्चाम्वो. ४ बी ठायिकात्वे. ५ डी सेना, ६ बी °लुगुला . डी लुगुलुटार'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org