SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६६ व्याश्रयमहाकाव्ये [ मूलराजः] गोणि बाणौघमर्यस्रपकं कर्कन्धुकाधनुः । पट्टिका भिल्लचमुकाधाद्धर्तुं रिपुलक्ष्मिकाम् ॥ ६॥ ६. पट्टिकाज्ञाता धनुर्विद्यादिषु कुशला भिल्लचमुका मूलराजसत्का नीचजातित्वात्कुत्सिता मेदसेना रिपुलक्ष्मिकां शत्रूणामन्यायार्जितत्वास्कुत्सितां लक्ष्मी हतु बाणौघमधाधारयत् । किंभूतम् । गोणि गोण्या मितं यावता गोणी भ्रियते तावन्तमित्यर्थः । तथा सुतीक्ष्णत्वेनारीणामस्रं रक्तं पिबति विचि अर्यस्रपा अज्ञातोर्यस्रपा अर्यस्रपकस्तम् । तथा कर्कन्धुकाधनुश्चाज्ञातबदरीचापं चाधात् । भिल्ला हि प्रायः सुप्रापत्वाद्वदरीधनुरतिलघुहस्तत्वादहून्बाणांश्च बिभ्रति ॥ गोणिम् । इत्यत्र “गोण्या मेये" [१०३] इति ह्रस्वः ॥ पष्टिका । अर्यस्रपकम् । लक्ष्मिकाम् । चमुका । कर्कन्धुका । इत्यत्र "ड्यादीदूतः के" [१०४] इति हस्वः ॥ सुलक्ष्मीकाः सुशक्तीकाचमूकाः कुरवोभ्रमन् । जिताम्रपाकाः खारीकातूणाकानयंतूणकाः ॥७॥ ७. कुरवः कुरुराजस्यापत्यानि भटा मूलराजसेवकाँ अभ्रमन् युद्धाय व्यचरन् । किंभूताः । सुलक्ष्मीकाः शोभनबलादिसंपदः । तथा सुशक्तीकाः शोभनशक्तिशस्त्राश्वम्वः सेना येषां ते सुशक्तीकाचमूकाः "तद्धिताक'' [३.२.५४] इत्यादिना पुंवत्त्वनिषेधः। तथा जिता अस्रपा रुधिरपायिनो दैत्या यै: "शेषाद्वा" [७.३.१७५] इति कचि जितात्रपाका दैत्यरणेष्वनेकशो लब्धजयपताका इत्यर्थः । तथा खारीकाः खार्या १डी म् । गोण्या. २ एसी मियतं. ३ सी वन्ता गो. ४ ए सी डी ज्ञाब'. ५ डी त्वाद्वाणां. ६ ए सी टिकाः । अ, ७ बी काभ्र. ८ ए सी य विच'. ९ बी क्ष्मीका शो'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy