SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१९.] पञ्चमः सर्गः। ३७९ शदक्षरा विराडिति श्रुतेः । तेषामरिषु दैत्येषु शरान्युगपदेककालं ववृधुर्मुमुचुः । कतिसंख्यान् । आसन्नास्त्रयो येषां तांश्चतुरः । तथादूरे षड् येषां तान्पञ्च सप्त वा । तथाधिका अष्टौ येभ्यो येषु वा तान्दशादीन् । अधिकत्वं चाष्टानामेकाद्यपेक्षम् । अवयवेन विग्रहः । समुदायः समासार्थः । तथाधिकमधैं येषु तेध्यर्धाः षड् येषां तानध्यर्धषान्नव च ॥ अर्धपञ्चमविंशान्केप्यश्वानुपदशा अपि । आरूढसुभटाञ्जनुष्ट्वैिन्ये मैत्तबढिभे ॥ ३१ ॥ ३१. मत्तबबिभे मदोत्कटानेकहस्तिके द्विदैन्ये वर्तमानान्केपि गूर्जरभटा अश्वाजघ्नुः । कीदृशान् । आरूढाः सुभटा यांस्तान् । तथार्ध पञ्चमी विंशतिर्यासु ता अर्धपञ्चमा विंशतयो येषां तान्नवतिमित्यर्थः । कीदृशाः । उप समीपे दश येषां तेपि नवाप्येकादशापि वा स्तोका अपीत्यर्थः ॥ उच्चैर्मुखानुष्ट्रमुखान्कृषस्कन्धान्सनन्दनान् । सौजा दक्षिणपूर्वास्थोदहत्कोप्यग्निवत्परान् ॥ ३२ ॥ ३२. दक्षिणपूर्वास्थो दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वाग्नेयी दिक्तत्रस्थः सौजा विद्यमानप्रतापः कोपि गूर्जरभटोग्निवद्वह्निदेवतेव परानदहत्तीव्रप्रहारैः संतापितवान् । किंभूतान् । उच्चैःस्थाने मुखं येषां तान् । तथोष्ट्रमुखानुष्टमुखवद्वीभत्सवक्रान् । तथा वृषस्कन्धान्वृषभस्कन्धर्वत्पीनस्कन्धान्बलिष्ठानित्यर्थः । तथा सनन्दनान्पुत्रोपेतान् । अग्निरपि दक्षिणपूर्वदिगधिपत्वात्तत्रस्थः सतेजस्कश्च स्यात् ॥ १सी मन्यब. १ सी दृश उ. २ सी वत्मीन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy