________________
३० घ्याश्रयमहाकाव्ये
[मूलराजः] पिरत्राध्याहार्यः । ब्रह्मस्कन्दावप्येतन्न्यायानस्य पुरस्य नीतीः स्तोतुमेतावन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न समौँ । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । अत एवैतत्पुरं सूरिभिस्तत्त्वातत्त्वविवेककुशलैर्वृद्धर्धनधान्यद्विपदचतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं डूयेत कथ्यते । वर्तमानाया अर्थेपि क्वचित्सप्तमी दृश्यते । भवति हि न्यायवति पुरे लोकः श्रीपात्रम् । यद्वा । सूरिभिर्वास्तुविद्याकुशलैर्वास्तुविद्यानुसारेण निर्मितत्वाद्वृद्धहेतुडूयेत । वास्तुविद्यानतिक्रमण निर्मिते हि पुरे श्रीविज़म्भते । णिद्वद्विदिति । यथा णित् णानुबन्धो णिगादिर्जित् आनुबन्धो बिजादिश्च प्रत्ययो वृद्धेरैदौदालक्षणाया हेतुः सूरिभिर्वैयाकरणैः कथ्यते ॥
अस्मिन् सागरुधूमेन्दशङ्काभाग्णशिखः शिखी । समुजचञ्चुरुद्गम्य सुवाङवत उद्मनाः ॥ ३८ ॥ ३८. सहागरोधूमेन वर्तते यत्तस्मिन् सागरुधूमेस्मिन् पत्तने गवण्णकाराकारा शिखा चूडौं यस्य स णशिखस्तथा अकाराकारा चञ्चुर्यस्य स अचञ्चुः । नागरलिपौ हि णकारनकारावेवं लिख्यते । यथा । ण च । शिखी मयूर उद्गम्य ग्रीवामूर्वीकृत्य सुवाग्मधुरस्वरं यथा स्यादेवं ङवते केकायते । कीदृक् सन् । अब्दशङ्काभाग मेघवितर्कवान् । अत एव सुहृत्संगमाभिप्रायेण समुत्सहर्षः । अत एव चोद्मना उत्कण्ठितः । एतेनैवं नामात्रांगरुः प्रभूतो देवगृहेषु विलासिभवनेषु च दन्दह्यते यावता तद्भूमो नभस्तलेभ्रपटलविभ्रमं वहतीत्युक्तं स्यात् ॥
१ एफ् °पि अत्रा. २ सी त्रम् । सू. डी `त्रम् । अथवा सू. ३ सी एफ गरधू. ४ सी डी ण इव णका. ५ बीडास्य. ६ बी सी डी 'त्रागुरुः. ७ एफ षु द.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org