SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये पञ्चमः सर्गः । शैलप्रस्थमहित्रातरेवतीमित्रभूभुजाम् । सैन्येभूत्तस्य पुंनाट्यनान्दीतूर्य ध्वनद्धनुः ॥१॥ १. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थामिव शिलप्रस्थं नाम पुरं तत्र भवःशैलप्रस्थः । मही त्रासीष्टासौ “तिकृतौ नाम्नि" [५.१.७१] इति क्ते महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदत्रयद्वन्द्वे ते ये भूभुजो मूलराजनृपास्तेषां ध्वनज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीहक् । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि । भम्भा-मुकुन्द-मद्दल-कडम्ब-झल्लरि-हुँडुक्क-कंसाला । काहल-तिलिमा सङ्खो वंसो पैणवो य बारसमो॥ तूर्य तूरम् । नान्दी च तत्तूर्यं च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवणैर्नृत्यन्तीव ॥ मित्रे रेवतिमित्रस्य रणायोत्तस्थतुस्तदा । गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥२॥ २. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तल्लघुभ्राता च मूलराजनृपौ रणायोत्तस्थतुः। किंभूतौ । गङ्गाद्वारपती गङ्गाया द्वारं यत्र तद्गङ्गा १ बी त्रस्य'. २ ए सी नाक. ३ बी हुडक. ४ ए पणमो य वा सम्मे । सी पणेमा य वा सम्मे।. ५ डी वो दुवालस. ६ ए सी नादीतू'. ७ ए सी नादीतू. ८ सी ङ्गाम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy