________________
३६४
ज्याश्रयमहाकाव्ये
[ मूलराज : ]
द्वारं नाम पुरं देशो वा तत्स्वामिनौ । तथा रेवतिमित्रस्यैवनाम्नो
नृपस्य मित्रे ॥
महित्रोत | शैलप्रस्थ । इत्यत्र "ड्या : " [ ९९ ] इत्यादिना
I
लवचनात्क्वचिद्विकल्पः । रेवतिमित्रस्य रेवतीमित्र । गङ्गम
चिन्न | नान्दीतूर्यम् । गङ्गाद्वार ॥
रोहिणित्वमजत्वं च नृपैर्दातुं प्रतिश्रुतम् । भयस्पृशे रोहिणीत्वमेजात्वमभयस्पृशे ॥ ३ ॥
३. नृपैर्मूलराजसत्कभूपै रोहिणित्वं गोत्वमजत्वं च छागीत्वं च दातुं प्रतिश्रुतं प्रतिज्ञातम् । सामान्येनोक्त्वा विशेषेणाह । भयेत्यादि । भयस्पृशे कातराय रोहिणीत्वं दातुं प्रतिश्रुतम् । गौवध्येत भरूिणामवध्यत्वमङ्गीकृतमित्यर्थः । अभयस्पृशे शूरायाजात्वम् । अजा हि वध्येति शूरा एवास्माभिर्हन्तव्या इति प्रतिज्ञातमित्यर्थः । एतेन नृपाणां क्षात्रो धर्म उक्तः ॥
रोहिणित्वम् रोहिणीत्वम् । अजत्वम् अजात्वम् । इत्यत्र "वे” [ १०० ] इति बहुलं ह्रस्वः ॥
भटा भटेषु भ्रुकुटिं भ्रुकुंसा नर्तकीष्विव ।
दधुं कुंस कौन्तेय भ्रकुटीभृद्यमोपमाः ॥ ४ ॥
४. भटा मूलराजयोधा भटेष्वरियोधेषु विषये भ्रुकुटिं सकोपभ्रूविकारं दधुः । यथा भ्रुकुंसाः स्त्रीवेषधारिणो नटा नर्तकीषु विषये
१ बी 'मजत्व.. २ बी धुर्भुकुं ३ बी 'कौतेय'.
खः ॥ बहु
•
गङ्गामह । -
१ बी नो मित्रस्य. ४ ए सी ह । क'. stories.
Jain Education International
२ ए सी डी 'त्रातः । शै. ३ एसी हु. ५ ए सी डी 'तूर्य । ग ६ ए सी णां क्षेत्राध.
For Private & Personal Use Only
www.jainelibrary.org