________________
३५८
[मूलराजः ]
सैधं सिध्यः पुष्यस्तेन चन्द्रयुक्तेन युक्तमसैध्यमपि पुष्येण चन्द्रयुक्ते - नायुक्तमपि पौषातैषाणां पुष्ये जाता “भर्तुसंध्यादेरण” [६.३.८९] इत्यणि पौषा एवं तिष्ये पुष्ये जातास्तेषा न तथातैषा द्वन्द्वे तेषां पुष्यजातानामपुष्यजातानां च नृणां सिद्ध्यै रणे मृता वै स्वर्गं यान्तीति स्मृते: स्वर्गप्राप्तिरूपकार्यसिद्धये हि स्फुटं भवति । सैधं हि दिनं किल । अपि द्वादशमे चन्द्रे पुष्यः सर्वार्थसाधकः । इतिवचनात्पौपाणामपौषाणां च नृणां सिधै स्यादिदं त्वसैधमपीत्यर्थ इति । केषाम् । यदूनां यादवभटानां पुरतः । यतो गार्गीयतां गर्गो गोत्रादिभूतो ब्राह्मणस्तस्यापत्यं वृद्धं गार्ग्यस्तमिच्छन्ति । क्यन् । तेषाम् । जयसिद्धिहेतु दिन पृच्छार्थं गार्ग्यब्राह्मणमिच्छतां यथा तथेदमहः सर्वकार्यसिद्धिकरमिति किं ब्राह्मणपृच्छयेति यदूनामग्रे वदन्नित्यर्थः । अत एवं चागाय गायों भूतो गार्गीभूतो गार्ग्यब्राह्मणवत्पृच्छकानां यदूनां कार्यसिद्धिकरं दिनं वदन्नित्यर्थः । अमुना च जल्पेन लक्षस्य रणे भावी मृत्युः सूचितः ॥
पौषातैषाणाम् । इत्यन्त्रं " तिष्य" [ ९०] इत्यादिना यलुक् ॥ तिष्यपुष्ययोरिति किम् । असैध्यम् ॥ अन्ये तु तिष्यपुष्ययोर्नक्षत्रे वर्तमानयोः सामान्येणि नित्यं सिध्यशब्दस्य तु विकल्पेन यलोपमिच्छन्ति । तन्मते तिप्यो देवतास्य तैष्य ( ? ) इत्यत्रापि प्राप्नोति । तथा सैधमसैध्यमित्यपि ॥
गार्गीयताम् । गार्गीर्भूतः । अत्र " आपत्यस्य " क्यच्च्योः " [ ९१] इति यस्य लुक् ॥
व्याश्रयमहाकाव्ये
वात्स्यवात्सीयवात्स्यायनैर्वैल्वकैर्वैणुकैरागतं दैत्यराजन्यकम् । शस्त्रिमानुष्यकं तत्सपञ्चाग्निभिर्मूलराजस्य विप्रैः शशंसे तदा ॥ ९१ ॥ ९१. तदा शस्त्र प्रहरणान्वितं मानुष्यकं भटौघो यत्र तत्तथा दै१ सी नैव २ ए बी सी डी 'कैर्वेणु'.
•
१ डी पि पौ २ ए सी जास्त. ३ डी 'दशे च . ४ ए सी जयिसि .. ५ बी वगा. ६ ए सी षाणम् । ७ सी 'त्र त्यष्य ८ डी भूताः । अ.
•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org