________________
[है० २.४.९१.]
चतुर्थः सर्गः ।
त्यराजन्यकं दानवराजन्यौघ आगतमस्य मूलराजस्याने विप्रैः शशंसे कथितम् । किंभूतैः । बिल्वाः सन्त्यस्यां “नडादेः कीयः" [६.२.९२] इति कीये विल्वकीया नाम नदी तत्र भवैस्ततो वागतैर्बिल्वकैरेवं वैणुकैश्च । तथा स पञ्चाग्निभिः पञ्चाग्नाय्यो दक्षिणाहवनीयगार्हपत्यसभ्यावसथ्याख्यानां पञ्चानामग्नीनां भार्या देवता येषां देवताणो लुपि पञ्चाग्नय आहिताग्नयः सह तैर्ये तैस्तथा वत्सो गोत्रादिभूतो ब्राह्मणर्षिस्तस्यापत्यं वृद्धं वात्स्यस्तत्र साधवो वात्स्यास्तथा वात्स्यस्येमे शिष्या वात्सीयास्तथा वात्स्यस्यापत्यानि युवानो वात्स्यायना विशेषणन्नयद्वन्द्वे तैः । स्रग्विणी छन्दः ॥ पञ्चरामत्रिरम्भोरुषगोणिषमुचिषट्सप्तयूनां द्विपदाजिनाम् । हेषितं चाशृणोत्सोसिदण्डं दधत्पटुमारी रिपुस्त्रीत्वदोथोत्थितः
॥९२॥ ९२. द्विषद्वाजिनां शवश्वानां हेषितं स मूलराजोशृणोच्च । चस्तुल्ययोगितार्थः । यदैव दैत्यराजन्यकमागतं विप्रैः शशंसे तदैव स हेपितमँशृणोदित्यर्थः। किंभूतानाम् । पञ्चभी रामाभिर्नारीभेदैरीद्वन्दीभिः क्रीता इकणो "अनान्यद्विः प्लुप्" [६.४.१४१] इति प्लुपि पञ्चरामाः । एवं तिसृभी रम्भोरुभिः कदलीस्तम्भनिभोरुभिर्बन्दीभिः षड्भिर्गोणीभिरर्थान्मञ्जिष्ठादिक्रयाणकभृतैरावपनैः षभिः सूचीभिः पिशुनभार्याभिर्बन्दीभी रत्नसूचीभिर्वा षड्वा सप्त वा षटुप्तास्ताभिर्युवतिभिस्तरुणीभिश्च बन्दीभिः क्रीतास्त्रिरम्भोरवः षङ्गोणयः षट्सूचयः षट्प्तयुवानः । विशेषणद्वन्द्वे । तेषाम् । अथ हेषितश्रवणानन्तरमुत्थितः । कीदृक्सन् । असिदण्डं खङ्गं १ ए सीडी चासणो. १ ए सी विप्रैश. २ ए सी डी त्यस्या न. ३ ए बी सी तैबिल्व' ४ ए बीसी वं वेणु. ५ सी डी सत्वाख्या.६ ए सी चाम्यय०.७ ए सीडी मसणो'. ८ ए द्वन्दैभिः. सी डी द्वन्दिभिः. ९ सी दिप्लुपि प. १० ए सी रूभिक. ११ ए सी यष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org