________________
[ है० २.४.८९. ]
चतुर्थः सर्गः ।
७३. ] यणि काद्रवेय्यो नाग्यः । द्वन्द्वे । जलस्य या मनुषीकाद्रवेय्यस्ताभिरुदीक्ष्यो मत्स्वाम्ययमिति बुद्धयोर्ध्वं विलोक्य: सिन्धुराजः समुद्राधिपत्वा यथार्थनामा सिन्धुराजाख्यो नृपः संनह्याभात् । कीदृक्सन् । सौरी सौयो नु भां दधनः । यथा सूर्यो देवतास्य देवताणि सौर्य: । सौर्याय हितः " तस्मै हितः " [ ७.१.३५ ] इतीये सौरीयोर्कः । सौरी सूर्यसत्कां भां तेजो धत्ते तथारिभिरसह्यत्वात्सौरीमिव सौरीं भां प्रतापं दधानः । तथागस्तीयो नु । अगस्त्यो देवतास्यागस्त्यस्तस्मै हितोगस्त्यर्षिः स इवागस्त्यामगस्तिर्संत्कायां दिशि दक्षिणस्यां सैन्यरचनाविशेषेण स्थितः । यमदिक्श्रयणोक्त्या चास्यावश्यंभावी पराजयः सूचितः । योपि सिन्धुराजो नदीपतिरब्धिः सोपि जलमानुषीकाद्रवेय्युदीक्ष्यः सौरीं सुरासंबन्धिनीं भां श्रियं सुरानुकारिनीरत्वात्सुराजनकत्वाद्वा दधान आगस्त्यां दिशि स्थितो भातीत्युक्तिः ॥
मनुषी । इत्यत्र " व्यञ्जनात्तद्धितस्य " [ ८८ ] इति यस्य लुक् ॥ व्यञ्जनादिति किम् । काद्रवेयी ॥
सौरीम् । सौरीयः । आगस्त्याम् । आगस्तीयः । अत्र " सूर्या" [ ८९ ] इत्यादिना यलुक् ॥
ननु सैधम सैध्यमप्यदोहः पौषातैषाणां नृणां हि सिद्ध्यै । जल्पन् गार्गीयतां यदूनामिति गार्गीभूतः ससज्ज लक्षः ॥९०॥
९०. लक्षः ससज्ज युद्धाय प्रगुण्यभूत् । कीदृक्सन् । जल्पन् । किमित्याह । नन्विति संबोधने । हे यदुभटा अदो रणसंबन्ध्यहार्दिनं
१ बी सैधम. २ ए सी गागीय..
१ ए सी स्मत्साम्य २ ए डी 'रीं सोरी ३ ए सी धान: सूर्योय ४ ए सी 'थाभिरि ५ ए सी 'स्यागस्त्य 'सक्तायां, ७ बी 'चनां वि ं. ८ ए सी सुराः सं
३५७
Jain Education International
For Private & Personal Use Only
धानो सूर्योय. डी ६ ए सी डी
www.jainelibrary.org