SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २८ 1 . ब्याश्रयमहाकाव्ये [मूलराजः] विभो इति प्रभविति । इत्यत्र “सौ नवेतौ” [३८] इति वासंधिः ॥ उ इति । इत्यत्र “ॐ चो' [३९] इति वासंधिः । असंधिपक्षे च उञ् ॐ इत्येवंरूपो दी|नुनासिको वा । ॐ इति ॥ पक्षे । संधिः । विति ॥ जिस्करणं स्वरूपपरिग्रहार्थम् । तेन विकृतस्य न भवति । अह डे अहो इति ॥ किमु अम्बा किमु तातः किम्बीशो गीरु इत्यभूत् । गुरुं प्रति नृणामत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवंविधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येषु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्बा किमु किं वा तातः किम्वीशः किंवा स्वामीति । यथा उ हे लोका घञ् प्रत्ययो आनुवन्धत्वावृद्ध्यायैकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥ किम्वीशः । इत्यत्र "अवर्गात् ०" [४०] इत्यादिना वकारो वा स चासन् । असत्त्वादनुस्वारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीरु इति ॥ अनिति किम् । घशु अलम् ॥ स्वर इति किम् । किमु तातः॥ साम साम ध्रुवं तावद्दधि दधि मधु मधु। श्रूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ ३५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः। १ डी वा भवति प. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४ डी गुरुधर्माचार्य वा. ५ सी एक् र्य वा. ६ सी डी लक्षीक. ७ वी 'कृत्येत्येवं . सी कृत्येवं. ८ एफ संपत्त्या . ९ सी डी भवेत् ।. १० सी डी 'दि का. ११ सी पि त°, १२ एफ गादि'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy