SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [है० १.२.३७.] प्रथमः सर्गः । श्रान्तम् । अहो इत्याश्चर्ये । जान्विहेत्यत्र उ इति संबोधने । हे लोका आश्चर्यं तस्यापि मारुतेरपीह पुर आन्तादन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविशेषविलोकनाय जिगमिषोर्गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । एतेनास्य लकासकाशादपि महत्तमत्वोक्तिः ।। आन्तमित्यत्र क्रियाविशेषणे द्वितीया [ २. २. ४१.] ॥ अमी अमुमुईचः । इत्यत्र “अदोमुमी" [३५] इत्यसंधिः ॥ अ एहि । आ एवं नु मन्यसे । इ ईक्षिताः। ई ईदृशि । उ उत्तिष्ठ । ऊ ऊहस्व । ए अस्मिन् । ओ अलम् । इत्यत्र “चादिः स्वरोनाङ्" [३६] इत्यसंधिः ॥ स्वरे पर इति प्रत्यासत्तेस्तन्निमित्तकसंधिप्रतिषेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जानू अरुजत् ॥ केचित्तु चाद्यचादिस्थानस्याचादिरूपत्वात्स्वरनिमित्तकमपि संधिमिच्छन्ति । जान्विह ॥ अनाङिति किम् । आन्तम् ॥ अहो आन्तम् । इत्यत्र "ओदन्तः" [३०] इत्यसंधिः ॥ उ इत्यूँ इति विति चाहो इत्याह्वायके गुरौ। विभो इति प्रभविति चाहात्र विनयी जनः ॥ ३३ ॥ ३३. सुगमः । नवरं सर्वत्र उ इति संबोधने । आगच्छेत्यादिका च क्रिया सर्वत्राध्याहार्या । संबोध्यानां च बहुत्वादहूनि संबोधनपदानि । तथा विभो इति प्रभवितीत्येतयोः प्रत्युत्तरवाक्ययोरादिशेत्यादिक्रिया. ध्याहार्या । उपलक्षणत्वाद्भगवन्नित्यादीन्यपि गुरुसंबोधनपदानि ज्ञेयानि । प्रत्युत्तरदायिनामनेकत्वात् । इतिः सर्वत्र वाक्यपरिसमाप्तौ ॥ १ ए एफ ति वाहो. ३ डी बोधनीयानां. १ सी डी त्तमोक्तिः ।. २ एफ र उ इति सौ. ४ एफ नि ज्ञेयानि । त°. ५ सी डी ति म. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy