SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ [है० २.४.६७.] चतुर्थः सर्गः। ३४९ सूर्याणी सूर्या । इत्यत्र "सूर्याद्" [१४] इत्यादिना वा डीरान् चान्तः ॥ देवतायामिति किम् । सूरी ॥ यवानी । यवनान्या। अरण्यानीः । हिमानी । इत्यत्र “यव" [६५] इत्यादिना डीरान् चान्तः ॥ आर्याणी क्षत्रियाण्यभीः किं शुभचातुर्यात्क्षत्रिया किमार्या । इत्यहांचक्र आत्मसैन्ये धृतवात्सीवात्स्यायनीपतिः सः ॥ ७७॥ ७७. वत्सस्यर्षेरपत्यं वृद्धं स्त्री वात्सी । एवं वात्स्यायनी तस्याः पतिर्भर्ता वात्स्यायनीपतिः । द्वन्द्वे धृतौ बन्दीकृतौ वात्सीवात्स्यायनीपती येन स तथा स ग्राहारिरात्मसैन्य इत्यूहांचक्रे वितर्कितवान् । किमित्याह । अभीनिर्भया पराक्रमिण्यार्याणी प्रेक्षापूर्वकारिणी वणिगादिजातिः स्त्री किं क्षत्रियाणी क्षत्रियजातिः स्त्री वर्तते भीरुत्वादेवमाशङ्का । क्षत्रियाणी ह्यभी: स्यात् । तथा क्षत्रिया क्षत्रियजातिः स्त्री शुभचातुर्याच्छुभं परिणामे हितं यच्चातुर्य पर्यालोचितकारित्वं तस्माद्धेतोः किमार्या वणिगादिजातिः स्त्रीति । ग्राहारिः स्वसैन्य आर्या अपि पराक्रमिणीः क्षत्रिया अपि प्रेक्षापूर्वकारिणीः पश्यन्मत्सैन्ये स्त्रियोपि बुद्धिपराक्रमपात्राण्यतः केनाप्यहं न जैय्य इति स्वचित्ते परिभावितवानित्यर्थः ॥ आर्याणी आर्या । क्षत्रियाणी क्षत्रिया । इत्यत्र "आर्यक्षत्रियाद्वा" [६६] इति वा डीरान् चान्तः ॥ अधवयोगेयं विधिः॥ वात्सी वात्स्यायनी । इत्यत्र “यम" [६७] इत्यादिना डीयिन् चान्तो वा॥ १५ सी स्यानी. - १ बी भीनिर्भ'. २ सी णीक्षा'. ३ बी भीकत्वा'. ४ बी मिणी क्ष. ५ ए सी जज्य इ. ६ सी र्याक्षणीः । आ', ७ सी वात्साय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy