SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४८ व्याश्रयमहाकाव्ये [मूलराजः] सूर्यासनयातटे हिमानीशीतयवानीतृप्तदन्तिदानैः। यवनान्या लेखयन्प्रशस्ति न्वेषोरण्यानीः क्षणाल्ललझे ॥७६॥ ७६. एष ग्राहारिररण्यानीमहारण्यानि क्षणाल्ललचे । कीदृक्सन् । महद्धिमं हिमानी तया यच्छीतं शीतस्पर्शस्तेन दग्धत्वाद्या यवानी दुष्टो यवस्तेन तृप्ता ये दन्तिनस्तेषां यानि दानानि मदास्तैः कर्तृभिर्यवनानामियं लिपिर्यवनानी । उक्तार्थत्वात् “तस्येदम्” [६.३. १६०.] इत्यण्न । तया देशभेदलिप्या कृत्वा प्रशस्ति वर्णनाकाव्यमर्थात्स्वस्य लेखयन्नु । क । सूर्यस्य भार्या सूर्या राज्ञीदेवी तस्यास्तनया सुराष्टेषु प्रसिद्धा भद्राख्या नदी तत्तटे । मषीमेचकानां करिमदानां लिप्यनुकारेण भद्रातटे पातेनाहो ग्राहारेदिग्गजानुकारिणो गजा अहो ग्राहारेः सैन्यसामग्रीत्यादिप्रशंसाहेतुत्वादेवमुत्प्रेक्षा ॥ मनाव्याम् मनाय्याम् मनुः । इत्यत्र “मनोरौ च वा" [६१] इति वा डीरौदैञ्चान्तादेशौ ॥ वरुणानी । इन्द्राण्याम् । रुद्राणी । भवान्याम । शर्वाणी । मृडानी । इस्यत्र "वरुणेन्द्र” [६२] इत्यादिना डीरान् चान्तादेशः ॥कश्चित्वाहिताझ्यानी वणिजानीत्यादावपीच्छति ॥ मातुलानी । मातुली ॥ क्षुम्नादित्वाण्णत्वाभावे ।आचार्यानी । रामाचार्याः। पार्थोपाध्यायानी । उपाध्याय्याः । इत्यत्र "मातुला" [६३] इत्यादिना डीरान् चान्तः ॥ अन्ये तु मातुलायाः ॥ आचार्ये । उपाध्याया। इत्यपीच्छन्ति तदर्थ कीरपि विकल्पनीयः॥ १ ए सी °ण्यानी क्ष. १ ए सी यपच्छी’. २ ए सी "स्तै क. ३ बी र्यवानान्या यव. ४ ए सी वीस्तस्या. ५ बी रेणोज्ज्वले भ.६ बी रे दिग्ग'. ७ बी म् । सर्वा. ८ सी डी ध्यायाः । ई. ९ सी डी °चार्याये । उ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy