SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ [ है ० २.४.६०. ] चतुर्थः सर्गः । कृतानां वणिजान्यादीनां प्रचण्डैर्निःश्वासैर हृष्यत्तथारिष्टसंसूचकत्वात्तदा प्रचण्डीभूतैरपि वातैरहृष्यदित्यर्थः ॥ रामाचार्याः स याज्ञवल्क्योपाध्याय्या अभिमन्युमातुलायाः । आयतनान्यावभञ्ज पार्थोपाध्यायानी पुत्रशेषणो यान् ॥ ७४ ॥ ७४. स ग्राहारियन्सन्नायतनानि प्रासादान्बभञ्ज पातितवान् । कासाम् । रामस्य परशुरामस्याचार्यः शंभुस्तस्य भार्या रामाचार्थी गौरी तस्याः । तथा यज्ञवल्कस्यापत्यं वृद्धं गर्गादित्वाद् [ ६.१.४२ ] यत्र याज्ञवल्क्यः स्मृतिकारस्तस्योपाध्यायो रविस्तस्य भार्यो याज्ञवल्क्योपाध्यायी राज्ञीदेवी तस्याः । तथाभिमन्युरर्जुनसुतस्तस्य मा तुला लक्ष्मीर्बलाच्युतयोर्भगिन्या अर्जुनपत्याः सुभद्राया अपत्यत्वेन हरेर्भागिनेयत्वात्तस्याश्च । यतः पार्थोर्जुनस्तस्योपाध्यायो द्रोणाचार्यस्तस्य भार्या पार्थोपाध्यायानी कृपी तस्याः पुत्रोश्वत्थामा तद्वद्रोषणोतिकोपनः ॥ प्रासादान्पातयन्स नोपाध्यायाचार्ये मन्यते स्म दृप्तः । सूरीतनयोजसोस्य किं वा सूर्याणीस्नोव मान्यमस्ति ॥ ७५ ॥ ३४७ ७५. दृप्तत्वात्स ग्राहारिः प्रासादान्देवगृहाणि पातयन्सन्नुपाध्यायाचार्ये देवायतनभङ्गो दुरन्त इत्युपदेशिके स्वस्य पाठकव्याख्यातृभार्ये न मन्यते स्म तदुपदेशावगणनेनावगणितवान् । वा यद्वा । अस्य ग्राहारे: सूर्यस्य भार्या सूर्याणी राज्ञीदेवी तस्याः सूनोश्च यमस्य च किं मान्यं गणनीयमस्ति । यतः सूर्यस्य भार्या मानुषी कुन्ती सूरी तस्यास्तनयः कर्णस्तस्येवौजो बलं यस्य तस्य कर्णस्येवं दुर्नयत्वालोकप्रमाथिबलस्येत्यर्थः 11 १ ए सी वल्कोपा. १ बी पाटित. २ बी र्या यज्ञ. ३ ए बी सी 'क्ष्मी बला' ४ ए सी 'देवीः त ५ सी 'स्ति यरं सू. डी 'स्ति या: सू. ६ एसी 'वदुर्णस्येव दु. ७ एसी वालोक'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy