SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४६ याश्रयमहाकाव्ये [ मूलराज : ] मनुरिन्द्राण्यां मुदा मनाव्यां वरुणानी च मृडान्यथो मनाय्याम् । शर्वाणीशस्तदा भवान्यां रुद्राणीशे चास्य रिष्टमाख्यत् ॥ ७२ ॥ २ ७२. तद रिष्टभवनकालेस्य ग्राहारे रिष्टं जातावेकवचनम् । अशुभसूचकोत्पातान्मनुर्मन्वृषेर्भार्या मुदा दानववधसंभावनोद्भूतेन हर्षेण हेतुनेन्द्राण्यामिन्द्रभार्यायामाख्यदवदत् । तथा मनाव्यां मनुभार्यायां वरुणानी च वरुणभार्या च मुदाख्यत् । अथो तथा मृडानी मृडभार्या गौरी मनाय्यां मुदाख्यत् । तथौ शर्वाणीशः शंभुर्भवान्यां गौर्या मुदाख्यत् । रुद्राणी च गौरी चेशे शंभौ मुदाख्यत् । स्त्रियो हि जातिप्रत्ययेन दंपती च स्नेहानुबन्धेन हर्षवार्ता मिथः प्रायेणाख्यान्ति । अनया च देवताभिररिष्टोत्क्त्यारिष्टानां सत्यभावित्वोक्तिः ॥ धृतवणिजानीयुताहिताग्यान्याचार्यानीश्वासवेत्प्रचण्डैः । पवनैर्मुमुदे स मातुलानीदुहितृपतिर्हरिमा तुलीशतुल्यः ॥ ७३ ॥ ७३. मातुलस्य भार्या मातुलानी तस्या दुहिता पुत्री तस्या: पतिर्भर्ता । यदि भवति तदा सौराष्ट्रैरवश्यं मातुलानीत्र्येव परिणीयत इति देशाचारः । स ग्राहारिः पवनैवतैः कृत्वा मुमुदे । किंभूतैः । धृता मार्गे देशपुरादिभङ्गेन बन्दीकृता वणिजानीयुता वणिग्भार्यासहिता या आहितान्यान्याचार्यान्योग्निहोतृभार्या आचार्य भार्याश्च तासां ये श्वासा दुःखाद्दीर्घसंतप्ता निश्वासास्तद्वत्प्रचण्डैरत्यन्तमुष्णत्वाद्दीर्घत्वाच्च रौद्रैरपि । यतः कीदृक् । हरेर्विष्णोर्मातुलः कंसो देवकी भ्रातृत्वात्तस्य भार्या हरिमा तुली जीवयशा लौकिकर्मतेस्तिस्वस्त्याख्ये द्वे भायें तयो - शो भर्ता कंस एव दैत्यत्वात्तत्तुल्यः । ग्राहारिर्यथा दैत्यत्वात्तदा बन्दी १ बी सी 'ताग्नान्या २ एसी व प्रचण्डै । ३ ए सी 'हिर्तृप. १ बी 'दा अरि २ ए सी डी नी व ३ सी था सर्वा ४ ए ताः पु. ५सी वश्येमा ६ ए सी पुत्रेव. ७ डी 'चार्या. ८ सी मतैस्ति'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy