SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ [है० २.४.२७.] चतुर्थः सर्गः। ३३१ षया द्विपुरुषप्रमाणया कुन्तयष्टया कृत्वा भान् शोभमानः । तथा यथादिर्नाल्यौषधिविशेषेणोपलक्षितः स्यादेवं नीलया नीलवर्णयोच्चैरतिशयितया पट्या वस्त्रेणाथ तथा नील्या हरितयावन्त्याश्वयोपलक्षितोत एवातिरोहिणीशशत्रू राहुमतिक्रान्तः । कागादित्याह । रेवत्यां रेवत्या चन्द्रयुक्तया युक्ते काले द्वादशे चन्द्र इत्यर्थः । लक्षो हि नाम राशिनाश्विनीजातत्वान्मेषराशिजातो रेवत्यां च चन्द्रो मीनराशौ स्यादनेन चास्यावैश्यंभावी मृत्युः सूचितः । एतेन मित्रबलागमोक्तिः ॥ त्रिकोण्ड्या । इत्यत्र 'काण्डात्" [२४] इत्यादिना ङीः ॥ प्रमाणादिति किम् । दशकाण्डया ॥ अप्रमाणादपीच्छन्त्यन्ये । नवकाण्ड्या ॥ अक्षेत्र इति किम् । द्विकाण्डाः क्षेत्रभुवः ॥ षट्पुरुषीः । द्विपुरुषया । इत्यत्र “पुरुषाद्वा" [२५] इति वा ङीः ॥ रेवत्याम् । रोहिणी । इत्यत्र "रेवत' [२६] इत्यादिना ङीः ॥ नील्यावन्त्या । नील्या । इत्यत्र “नीलोत्" [२७] इत्यादिना डीः ॥ प्रा. ण्योषध्योरिति किम् । नीलया पट्या ॥ नीलीनीलामबद्धलूनीबद्धविलूनामामकीषु जाताः। . एयुस्तस्यात्मजाः स्वभूभ्यो ज्ञात्वा समयं केवलीविदो नु ॥४८॥ ४८. प्रबद्धा चासौ लूना च प्रबद्धलूनी । बद्धा चासौ विलूना च बद्धविलूना । नील्यादिनामका ग्राहारेर्भार्यास्तासु जातास्तस्य ग्राहारेरात्मजाः पुत्राः केवलीविदो नु केवल्यो ज्ञानशास्त्राणि तज्ज्ञा इव समय रणकालं ज्ञात्वा स्वभूभ्यः स्वदेशेभ्य एयुः । एतेन मौलबलागमनोक्तिः ॥ १ ए सी दो नुः ॥ १ बी सी द्रिनील्यौ०. २ ए सी वस्यं भा. ३ ए सी डी काण्डा। इ०. ४ ए बी सी डी वत्या । नी. ५ए सी डी लादि. ६ सी मय र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy