SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३३० व्याश्रयमहाकाव्ये [मूलराजः] वधूटीः । इत्यत्र “वयसि" [२१] इत्यादिना डीः ॥ अनन्त्य इति किम् । वृद्धा ॥ त्रिशल्यी । इत्यत्र “द्विगो:' [२२] इत्यादिना डीः ॥ द्विद्रोणीः । इत्यत्र “परिमाणात्" [२३] इत्यादिना डीः ॥ परिमाणादिति किम् । षड्डषाः॥तद्धितलुंकीति किम् ।त्रिपण्याः॥ अवि(बि)स्ताचितकम्बल्यादिति किम् । त्रिवि(बि)स्ताः । ब्याचिताः । शतकम्बल्याः॥ मेदा बद्धोत्कचास्त्रिकाण्ड्या नवकाण्ड्या दशकाण्डया च रज्वा। क्षेत्रभुवः फालया द्विकाण्डाः षट्पुरुषीः परिखा विलङ्घय चेयुः॥४६ ४६. मेदा भिल्ला एयुः । किं कृत्वा । द्विकाण्डा द्विशरप्रमाणाः क्षेत्रभुवः क्षेत्रभूमी: षट्पुरुषीः षट्पुरुषप्रमाणाः परिखाश्च फालया विलङ्घयोत्प्लुत्य । कीदृशाः सन्तः । नवकाण्ड्या दशौण्डया च नवभिर्दशभिर्वा काण्डैः शरैः क्रीतया रज्वा कृत्वा बद्धा उदूर्ध्व कचा यैस्ते । कीदृश्या । त्रीणि काण्डानि शराः प्रमाणं यस्याः । “ प्रमाणान्मात्रट्" [७.१. १३९ ] इति मात्रट् । “द्विगोः संशये च” [७.१. १४३] इति लुप् । तया त्रिकाण्ड्या । अनेनाटविकबलागमनमुक्तम् । जातिरलंकारः ॥ द्विपुरुषया भान्स कुन्तयट्या रेवत्यामतिरोहिणीशशत्रुः । नील्यावन्त्याथ नीलयोचैः पैठ्या नील्यादिर्नु लक्ष आगात् ॥४७॥ ४७. स प्रसिद्धो लक्षो नाम राजागात् । कीदृशः । द्विपुरु१ वी 'दोक्तचा'. २ सी डी त्याथ'. ३ ए सी पल्यानी . ४ ए सी 'द्रि नु ल'. १ सी °णादि . २ बी लुगीति. ३ बी चिता । श. ४ ए सी काण्ड्यां च. ५ ए सी डी भिर्वा. ६ ए सी मातृत् ।। ७ ए सी लक्ष्यो ना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy