________________
३२९
[है०२.४.२०.] चतुर्थः सर्गः । णकानां दश भाराः । द्वाभ्यामाचिताभ्यां क्रीता व्याचिताः । तथा विस्तः स्वर्णस्य षोडश माषाः । त्रिभिविस्तैः क्रीताः । एषु पञ्चस्वपि "मूल्यैः क्रीतः" [६.४.४९.] इतीकणो "अनान्यद्विप्लब्ण६.४.१४०] इति लुप् । एषु च विशेषणेषु तत्तद्धान्यादिक्रीतानेकभेदतुरङ्गयपेक्षया समुच्चयार्थाश्चा अध्याहार्याः। यत्रैतानि धान्यादीनि दुर्लभानि तत्तद्देशोद्भवत्वस्य विवक्षितत्वेन तत्तद्देशापेक्षया द्विद्रोण्यादिना बहुमूल्येन क्रीतत्वादतिश्रेष्ठा इत्यर्थः । पूर्ववृत्ते मित्रबलमुक्तमप्रेतनवृत्तेषु चाटविकादीनि चत्वारि बलानि वैक्ष्यन्त इत्युद्धरितन्यायादनेन भृतकबलागमनमुक्तम् ॥
कथाः। भीमाः । ताः । इत्यत्र "आत्" [१८] इत्याप् ॥ गौरीः । वन्दीः । नदीः । इत्यत्र "गौरादिभ्यो मुख्याद्डीः" [१९] इति डीः ॥ मुख्यादिति किम् । भूरिनदाः ॥
अण् । तापसीः । कम्पकारीम् ॥ अन् । औत्सीः ॥ एयण् । सौपर्णेयी ॥ ए. यच् । शिलेयीम् ॥ एयञ् । शैलेय्या । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः ॥ इकण् । आक्षिकी: ॥ नञ् । खैणीः ॥ स्नञ् । पौंस्त्रीः ॥ टित् । शाक्तीकीः । इत्यत्र "अणजेये" [२०] इत्यादिना डीः ॥ अणादीनां षष्टीनिर्देशेनाकारस्य विशेषणं किम् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयत इत्यण् । तस्य "प्रोतात्" [६.२.१२९.] इति लोपे पाणिनीया वधूटीरिति ङीर्यथा मा भूत् ॥ प्रत्यासत्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । उशनसा प्रोक्ता नीतिरौश. नसी तामधीयत इत्यण् । तस्य "प्रोक्तात्" [६.२.१२९] इति लोपे "ड्यादेः" [२.४.९५] इत्यादिना डीलोपे कीर्यथा न स्यादौनसा वधूटीः । अस्त्यत्राणाकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययारे । यदभिधेया तु वधूटीलक्षणा स्त्री प्रत्ययाहाँ न तस्याकारोस्तीति । तथा चारुवलित्रया वधूटीः ॥
१बी द्विः प्लु. २ बी वक्षन्त'. ३ सी पसी। क. ४ ए सी अझ् । अङ् । औ. ५ बी पोस्लीम् । टि. ६ ए सी क्तं प्राणि'. ७ बी शसना व. ८ ए सी डी णो अका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org