SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३२८ ढ्याश्रयमहाकाव्ये [मूलराजः] लोकव्यवहारज्ञतोक्ता । तथा लीला शृङ्गारचेष्टाविशेषः । सह तया । उपलक्षणत्वाद्विलासादिभिश्च स्वाभाविकालंकारैर्वर्तन्ते यास्ताः । तथा स्त्रीभिः संस्कृताः सखीभिर्मण्डनालंकारादिभिः शोभिताः । “प्राग्वतः" [ ६.१. २५ ] इत्यादिना नजि स्त्रैणीश्च । तदेवं विशेषणसूचितैरालम्बनविभावोद्दीपनविभावैः शृङ्गारस्य प्रकर्षप्राप्तत्वाद्वधूनामत्यन्तं दुस्त्यजानामपि दण्डनायकैः सहसा त्यागेन स्वस्वामिनि ग्राहारावुत्कृष्टा भक्तिः सेनायुक्तनृपैस्तु ग्राहारेः प्रचण्डाज्ञता सूचिता । सेनान्य इत्यनेनाभिधेया: सेनायुक्ता नृपास्तु त एवात्र ज्ञेया येमित्रा ग्राहारिणा निर्जिय स्वसेवकीकृतास्तेषामेव ह्यादेशाकरणेतिभीरुत्वादेवमागमनसंभवः । एवं चात्रामित्रबलागमनमुक्तम् ॥ वृद्धाकृतमङ्गलास्त्रिशल्यीभृत ईयुः सुभंटाः श्रितास्तुरङ्गीः। द्विद्रोणीः षड्नुषास्त्रिपण्याः शतकम्बल्या याचितास्त्रिबिस्ताः ॥४५॥ ४५. सुभटा ईयुरागताः । किंभूताः सन्तः । वृद्धाभि: स्थविरस्त्रीभिः कृतं मङ्गलं चन्दनवर्धनादि येषां ते । तथातिबलिष्ठत्वात्रिशल्यीभृतस्त्रीणि शल्यास्त्राणि धारयन्तः । तथा तुरङ्गीः श्रिता आरूढाः । कीदृशीः। द्रोणश्चतुराढकी धान्यमानभेदः । अत्र चोपचाराद्रोणस्थं धान्यमुच्यते । द्वाभ्यां द्रोणाभ्यां क्रीता द्विद्रोणीः । षविषैर्वृषभैः क्रीता: षडषाः । त्रिभिः पणैः कार्षापणैरनेकस्वर्णमाषसमुदायरूपैर्मानभेदैः क्रीता: " पणपाद ” [६. ४. १४७ ] इत्यादिना ये त्रिपण्यास्तथा कम्बलोस्य स्यात् “ कम्बलान्नाम्नि" [ ७.१. ३४ ] इति ये कम्बल्यमूर्णापलशतम् । शतेन कम्बल्येन क्रीताः । तथाचित: कर्पासादिक्रया १ ए बी सी भटाश्रि. २ ए सी पण्या श°. १ ए सी डी वियोगः । स. २ ए सी °ण्डलालं'. ३ बी णि शिल्पास्त्रा'. ४ सी यतः । त?. ५ सी द्रोणी प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy