________________
[ है० २,४.१७. ]
चतुर्थः सर्गः ।
३२७
वात एव भीमा नदीः शृणोति मत्स्यग्रहणाभिलाषेण तासु जिगमिषुत्वाल्लोकादाकर्णयति ॥
उत्क्षिमुः सोरिकम्पकारी शैलेय्या भुजया गदां शिलेयीम् । सौपर्णेयी सहोदरौजाः शाक्तीकी: पौस्त्रीदिदेश सेनाः ॥ ४३ ॥
४३. स ग्राहारिः शाक्तीकीः शक्तिप्रहरणा: पौंस्त्री: पुंसां पौरुषगुणोपेतानां नराणामिमाः सेना आदिदेश रणारम्भायाज्ञापयत् । कीदृक् । सुपर्ण्यः । केचित्वेनमजादिषु पठन्ति । तन्मते सुपर्णाया वापत्यं स्त्री सौपर्णेय सुमतिनाम्नी सगरपत्नी तस्याः सहोदरो गरुडस्तद्वदोजो बलं यस्य सः । अत एव शिलायास्तुल्या " शिलाया एयच्च ” [ ७.१. ११२] इति चकारादेय शैलेयी तया शिलादृढया भुजया कृत्वा गदां मुद्गरविशेषमुत्क्षिप्रुरुल्लालयन् । कीदृशीम् । शिलेयीं शिलाभिस्तुल्याम् । अत्रेय । अत एवारिकम्पकारीम् ॥
ग्राहारेरादेशे सेना यथामिलंस्तथादशभिर्वृत्तैराह ।
सेनान्योस्याज्ञया तदैयुस्त्यक्त्वा स्त्रैणीराक्षिकीः सलीलाः । औशनसाश्राथ पाणिनीयाः सहसा चारुवलित्रया वधूटीः ॥ ४४ ॥
४४. तदास्य प्राहारेराज्ञया सेनान्यो दण्डनायकाः सेनायुक्ता नृपा वैयुर्ग्राहारिसमीप आगताः । किं कृत्वा । वधूटीर्नवोढाः पत्नीराक्षिकीरक्षैर्दीव्यन्तीः सतीः सहसाकस्मात् त्यक्त्वा । कीदृशीः । चारु मनोज्ञं वलित्रयमुदर मध्यवर्ति रेखात्रयमुपलक्षणत्वाच्छेषाङ्गोपाङ्गानि च यासां ताः । अथ तथा पाणिनीयाः पाणिनिप्रोक्तमहाशब्दानुशासनज्ञाः । एनेन विद्वत्तोक्तिः । तथौशनसाश्च शुक्रप्रोक्तनीतिशास्त्रज्ञाच । एतेन
१ बी सां पुरु
Jain Education International
२ बीच | अ° ३ बी 'राजाया. ४ सी 'टीवो'.
For Private & Personal Use Only
www.jainelibrary.org