SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२६ व्याश्रयमहाकाव्ये [ मूलराजः ) सीमासु | अतिपर्वासु । इत्यत्र " ताभ्यां वाबू डित्" [१५] इति वा डिदापू ॥ पक्षे पूर्वाभ्यां प्रतिषेधाद्ङीर्न भवति । सीमानम् । कृतवर्मणः ॥ उपान्त्यलोपिनस्तु बहुव्रीहेर्डीरपि स्यात् । शतराज्ञः । सहस्रराज्ञीः ॥ अजा । इत्यत्र “अजादेः " [ १६ ] इत्याप् ॥ अजादेरित्यावृत्या षष्ठीसंबन्धः किम् | अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात् । तेनेह न स्यात् । शताज्याम् । अत्र समाहारः समासार्थः स्त्री । नासावजशब्दसंबन्धिनी ॥ द्विपदः । त्रिपदों ऋचः । इत्यत्र " ऋचि” [१७] इत्यादिना पाच्छब्दस्याबन्तस्य पात्पदे निपात्येते ॥ अशृणोदय ताः कथाः प्रभोपा भीमा भूरिनदा नदीर्नु तस्मात् । ग्राहरिपुः प्रकोपतः से बन्दीगौरीरौत्सीस्तापसीः प्रपश्यन् ॥४२॥ ४२. अथ दूतप्राप्त्यनन्तरं स ग्राहारिस्तस्माद्दूतात्ता मूलराजोक्ता: कथा उक्तीरशृणोत् । कीदृक्सन् । औत्सीरुत्सस्यैर्षेरपत्यानि स्त्री: प्रकोपत एताः पापिष्ठा अस्य विग्रहस्य हेतव इति रुषा प्रपश्यन् । कीदृशीः। वन्दीर्हठापहृतास्तथा गौरी: स्वर्णवर्णास्तथा तपास्त्यासां " ज्योत्स्त्रादिभ्योण् ७. २. ३४. ] इत्यणि तापसीस्तपंस्विनी: । कीद्देशीः कथाः । भीमा दण्डोपायार्थत्वाद्रौद्रा अत एव भूरिः प्रभूतो नद आहतिप्रत्याहतिरूपः शब्दो यासु ताः । अत एव च प्रभां माहात्म्यं पिबन्ति परिभी कोक्त्या प्रसन्ते यास्ताः नदीन्विति । यथा ग्राहरि - पुग्रहाणां जलचरजन्तूनां रिपुर्धीवरो भूरिनदाः प्रभूतवहाः प्रभूतशब्दा "" १ ए बी सी 'भापो भी २ डी से बन्दी, १ बी डी 'वा डि. २ बी 'त् । शित ३ ए सी हरा° ४ ए सी ध कि.५ ए सी डी दारुच् । ३ ६ ए सी डी ' रुचि . ७ बी स् ऋषेर. ८ ए सी नदी हठा' ९ ए सी 'प्रश्निनी १० ए सी डी 'शी: तथा. ११ बी 'भावको.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy