SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [है० २.४.१४.] चतुर्थः सर्गः । ३२५ रियुधे युद्धार्थ सीमानं स्वदेशमर्यादाभूमिमेत्वागच्छतु । किं कृत्वा । पृतनाश्चमूर्युह्य । किंभूताः । अधिका राजानो यस्यां साधिराज्ञी नाम ग्रामो बहूनि सामानि यस्यां सा बहुसाम्नी नाम पुरी । द्वन्द्वे तयोरधीश्वरास्तदाद्यैर्नृपैः कृत्वा। शतं राजानो यासु सहस्रं राजानो यासु वा ताः । अत एवातिसाम्नः सामोपायमतिक्रान्ता युद्धायैव सदोद्यता इत्यर्थः। अत एव च कृतवर्मणः संनद्धाः ॥ इति स विसृष्टो वनान्तसीमास्वतिपर्वासु कोन्वजाः शताज्याम् । द्विपदस्त्रिपदा ऋचो महर्षीन्पठतो गोपजुषो जगाम पश्यन् ॥४१॥ ४१. इत्येवंप्रकारेण विसृष्टो राज्ञा मुत्कलित: स दूतो जगाम प्राहारिं प्राप । कीहक्सन् । अतिपर्वासु मूलराजागमनानन्देनातिशयितोत्सवासु वनान्तसीमासु काननपर्यन्तसीमभूमिषु वर्तमानान्महर्षीन्मारणेच्छया क्रूरं पश्यन् । वृको नु यथारण्यश्वा शताज्यां शतस्याजानां समाहारे वर्तमाना अजाश्छागीारणेच्छया पश्यति । कीदृशान् । गोपजुषो गोकुलस्थांस्तथा द्वौ पादौ यासां ता द्विपद एवं त्रिपदाच ऋचो मत्रविशेषान्पठतः ॥ सहस्रराज्ञीः शतराज्ञः । इत्यत्र “अनो वा" [११] इति वा ङीः ॥ अधिराज्ञी । बहुसाम्नी । इत्यत्र "नाम्नि" [१२] इति ङीः ॥ कृतवर्मणः । इत्यत्र “नोपान्त्यवतः" [१३] इति न डीः ॥ सीमानम् । इत्यत्र "मनः" [१४] इति न डीः ॥ अन्निन्नस्सन्ग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । तेन सामातिक्रान्ता अतिसाम्न इत्यादावपि डीप्रतिषेधः स्यात् ॥ १ ए सी डी दारुचो. १ ए सी नृपौ कृ. २ ए सी हश्र रा. ३ ए सी इर्थः ।. ४ ए सी डी श्च रुचो . ५ ए सी हश्ररा . ६ डी अनिनस्म'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy