________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
आर्यकृती भेषजीसुमङ्गल्यपरीपापी भागधेय्य आयुः । सैकोत्तरतः समं समान्या भक्त्या केवलयास्य पीठदेव्यः ॥ ४९ ॥
३३२
४९. समान्या समानीसंज्ञया पीठदेव्या समं सहार्य कृत्यादिनान्यः पीठदेव्यो योगिन्योस्य ग्राहारेः संबन्धिन्या केवलयैकया भक्त्या हेतुना सैकोत्तरत एवंनाम्नोब्धिस्थादद्विविशेषादायुः । अनेनापि मौलबागमनोक्तिः । यतो वेलाकूलाधिपतित्वात्तस्य क्रमागतास्ताः सांनिध्यकारिण्यो देव्यः ॥
नीली नीला | प्रबद्धलूनी बद्धविलूना । इत्यत्र "क्तोच्च नाम्नि वा " [२८] इति वा ङीः ॥
1
केवली । मामकीषु । भागधेय्यः । पापी । अपरी । समान्या । आर्यकृती | सुमङ्गली | भेषजी । इत्यत्र " केवल " [२९] इत्यादिना ङीः ॥ नाम्नीति किम् । केवलया भक्त्या ||
भाजीकाली कुशीरदायां नागीभिः कुम्भस्थलीभिरुच्चाम् । अधिकटिकवरीजुषोध्यरोहन गुणगोणीं गजतां निषादिनोपि ५०
५०. अधिकटिकवरीजुषः श्रोणीं यावत्प्रलम्बमानवेणीका निपादिनोपि मौलबलसंबन्धिनो हस्त्यारोहाचे गजतां गजौघमध्यारोहन् । कीदृशीम् | भाजी कशाकस्तद्वत्कालीं कृष्णां तथा कुश्ययोविकारस्तद्वन्निबिडास्तीक्ष्णाः प्रलम्बाश्च ये रदा दन्तास्तैरस्यामुत्कृष्टां तथा नागीभिः स्थूलाभिः कुम्भस्थलीभिरुच्चामुन्नतां तथा गुणानां शौर्यादीनां गोणीमिव गुणगोणीं गुणस्थानमित्यर्थः । अस्य च वृत्तस्य पूर्वार्धे नागी
१ ए सी णीं जगतां.
१ एसी ध्यकरि . २ ए सी काना ३ ए सी 'श्व जगतां ४ बी पक्क: शा . ५ सी गोणी गु. ६ बी डी नागीका . सी नागीकाली कु ..
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org