SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३२२ याश्रयमहाकाव्ये [ मूलराजः] विजयिनी । प्रकाशयित्री । इत्यत्र "स्त्रियां नृतः [२] इत्यादिना डीः ॥ स्त्रियामिति किम् । अष्ट दिशः ॥ नान्तायाः संख्याया युष्मदस्मदोरिवालिजत्वादत एव नलोपे “आत्" [१८] इत्यावपि न स्यात् ॥ अस्वस्रादेरिति किम् । स्वसा ॥ उदित् । ज्यायसी ॥ ऋदित् । लसन्ती । इत्यत्र "अधातु" [२] इत्यादिना डीः ॥ अधास्विति किम् । सुहिन् ॥ तदेवं ग्राहारिविषयं वधाभिलाषमुक्त्वा वधे कृते यद्भावि फलं तदाशीर्वादपूर्व वृत्तद्वयेनाह। प्राची तमसामवावरी भास्करधीवर्यतिशर्वरी यथा हि । अद्य तथा तेन बह्ववावा मदृश्वर्यनवावरी प्रजासु ॥ ३७॥ ३७. यथा प्राची पूर्वदिग् हि स्फुटं तमसां तिमिराणामवावरी ओणतेर्वनि “वन्याङ् पञ्चमैस्य" [ ४.२. ६५.] इत्यात्वे च अपनायिका स्यात् । कीदृक्सती । अतिशर्वरी रात्रिमतिकान्तात एव भास्करधीवरी रविं बिभ्रती तथा तेन ग्राहारिणा कृत्वा बहवोवावानोपनायकाः क्षयकारका यस्याः सा प्रजाद्य सांप्रतं मदृश्वरी मां दृष्टवती मत्स्वामिका सत्यस्तु । कीदृशी । न विद्यन्तेवावानो यस्यां सानवावरी क्षय. कारकरहिता ॥ अचिरेण भवत्वसौ सुराष्ट्रा धृतधीवर्यथवा विनष्टधीवा । गायन्द्विपदश्चतुष्पदीर्वा कुण्डोनीरिह पातु चारणौषः ॥३८॥ ३८. असौ सुराष्ट्राचिरेण शीघ्रं भवतु । कीदृक् । ध्यायति कुकर्मेति १ सी पा चा. १ सी सती । ३. २ ए सी मस्यात्वे. ३ ए बावो य. सी वाचो य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy