________________
[है० २.४.२.] चतुर्थः सर्गः ।
३२३ "ध्याप्योर्धीपी वा" इति औणादिके क्वनिपि धीवा चण्डालो धीवेव कुकर्मकारित्वाद्धीवा ग्राहारिधृतो गृहीतो बन्दौ क्षिप्तो धीवा यस्यां सा धृतधीवरी । अथवा विनष्टो मृतो धीवा यस्यां सा च । तथेह सुराष्ट्रायां चारणौधो मङ्गलपाठकभेदसमूहो द्वौ पादौ यासां ता द्विपद एवं चतुष्पदीर्वा राजादिवर्णनोपेतांश्छन्दोभेदान् गोवधकस्य ग्राहारेर्वधेन निर्भयत्वाद्गायन्सन् कुण्डमिवोधो यासां ता: कुण्डोनी राजादिभ्यो लब्धा धेनू: पातु दुग्धपानाय रक्षतु ॥
तदेवमस्य वधे फलान्युक्त्वा वधहेतौ रणकरणे ग्राहारिमनुमन्यमानो दूतमाह । शतकुण्डोधा रथोस्वशिश्वीर्योक्तास्याश्वतरीस्त्रिहाणीस्ताः। मुक्खा मदिरां त्रिहायनां सोश्वाः सन्नाहयतु क्षणाविदाम्नीः॥३९।।
३९. अस्य ग्राहारे रथस्ताः पराक्रमित्वादिगुणैः सर्वत्र प्रसिद्धा अश्वतरीसरीर्योक्ता रणायात्मना सह संबन्धयितास्तु । कीदृक् । शतेन कुण्डोनीभिः क्रीतः शतकुण्डोधा । एतेन महार्घत्वोक्तिः । कीदृशीरश्वतरी: । त्रयो हायना वर्षाणि यासां ता यौवनस्था इत्यर्थः। एवंभूता अपि सापत्या अबला एव स्युरित्याह । अविद्यमानाः शिशवो बालका यासां ता अशिश्वीः । तथा द्वे दाम्नी कण्ठाभरणमाले यासां ता अश्वाः क्षणात्सन्नाहयतु । किं कृत्वा त्रिहायनां त्रिवार्षिकीम् । एतेन परिपक्रिमत्वोक्तिः । मदिरां मुक्त्वात्यन्तं रणोत्कण्ठया त्यक्त्वा । एवं च स्वयं ग्राहारेः सैन्यस्य च रणोद्यमेनुमतिरुक्ता । अनया चानुमत्याथ दुर्निगदं छलं त्वमन्तर्घ्यदा इति यहूतेनोक्तं तन्निरस्तम् ॥ १ ए सी योक्तस्या.
१ सी ध्यापो धी पी. २ ए प्यो थी पी. ३ ए सी यस्ता प. ४ सी डी क्रीता श. ५ बी हाय॑त्वो'. ६ बी शिश्वी । त°. ७ ए सी डी क्रिमोक्तिः ।। ८ ए बी सी डी धादिति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org