________________
[है० २.३.१०५.] चतुर्थः सर्गः ।
३२१ रिपुरक्तजपार्चितासियष्टिविजयिन्यष्ट दिशः प्रकाशयित्री । प्रजिघत्सति तं स्वसेव मृत्योर्म्यायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥
३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं पाहारि प्रजिघत्सति भक्षयितुमिच्छति । कीटक्सती । विजयिनी विजयहेतुरत एव सुहिन सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारक्तत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकेटयित्री । अतश्च यमादपि पूर्व ग्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाञ्चोप्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॒त्युस्वसृत्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूतेनोक्तं तदपास्तम् ॥ पलायमानाम् । प्लत्ययौनान् । इत्यत्र "उपसर्गस्यायौ" [२००] इति लः ॥ निजेगिल्यते । इत्यन्न “यो यङि" [१०१] इति लः ॥ गिलति । गिरति । इत्यत्र “न वा खरे" [२०२] इति वा लः ॥ पलिंघः परिघु । पल्यङ्कम् पर्यम् । पलियोग परियोगिणम् । इयंत्र "परेतियोगे" [१०३] इति वा लः ॥
लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड' [१०४] इत्यादिना ऋत लुत् डस्य च लो वा ॥ जवा जपा । इत्यन्न "जपादीनां पो वः" [२०५] इति वा पस्य वः ॥
सप्तमः पादः समर्थितः ॥ १ ए बी सी जयन्य.
१ ए सी रि जि. २ ए सी कयि'. ३ ए सी सृग्त्वारो'. ४ ए सी मान् ।. ५ वी गिरीत्य'. ६ ए सी डी लिघ । प°. ७ बी रिघः । १. ८ ए सी त्यप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org