SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३२० व्याश्रयमहाकाव्ये [मूलराजः] कस्यां सत्याम् । अस्य ग्राहारेर्मात्स्यनीतौ स्वजातावन्योन्यं गिलनरूपे मात्स्ये न्याये । कथमित्याह । प्लत्ययमानान्भयेन व्यावर्तमानान्पलाय. मानांश्च नश्यतो वणिगादीन्यो गिलति संहरति तं परोन्यो निजेगिल्यते गर्हितं गिलति तं च निजेगिलकमन्यो गिरतीति । एतन्मात्स्यनीतिनिवारणाभावान्मभुजार्गला कर्मकारी न स्यादेवेत्यर्थः । तस्माकानेन मैत्रीति ॥ पलियोगविदां गुरुं धरित्रीपल्यत परियोगिणं य आर्दीत् । लुफिडमृफिडजास्तर्फिलस्त्रीरघपर्यङ्कममुं सहे जवाक्षम् ॥ ३५ ॥ ३५. यो ग्राहारिः परियोगिणं महाध्यानिनमुफिडमृषिभेदमार्दीदपीडयत् । कीदृशम् । परि समन्ताद्योगं ध्यानं विदन्ति ये तेषां योगिनां गुरुं शिक्षकत्वादाचार्यम् । एतेनातिज्ञानितोक्ता । तथा धरित्र्येव पल्यङ्कः खट्वा यस्य तं भूमिशायिनमित्यर्थः । एतेन क्रियावत्तोक्तिः । तथा ऋफिडजानृफिडपुत्रांस्तथा ऋफिलस्त्रीफिलभार्याश्च य आर्दीत् । तममुं ग्राहारिं सहे क्षमे न सह इति काका व्याख्या। कीदृशम्। अघस्य महर्षित्रीभ्रूणघातादिपापस्य पर्यङ्कमिवाघपर्यकं पापविश्रामस्थानमित्यर्थः । तथा. कोपात्सदा मद्यपानाद्वा जपापुष्पवदक्षिणी यस्य तं रक्ताक्षम् ॥ तदेवमस्य सर्वथा मैत्र्ययोग्यत्वर्मुक्त्वा मैत्र्यकरणेधुना कृतान्तः प्रेनिकुर्वन्यनिखेलतु प्रेनिद्विडित्यनेन यहूतो राज्ञो मृत्युरूपं दण्डमुक्तवांस्तं स्वासियष्टेः सामोपवर्णनद्वारेण ग्राहारेरेवाह । १ डी डां. १ ए सी मासे न्या. डी मात्स्यना. २ ए सी गिल्ये ग. ३ बी डी गिलती . ४ ए सी गिणः म. बी गिनं म. ५ ए बी सी स्त्री ऋफि. ६ डी स्यर्षि. ७ ए सी मर्षि. ८ ए सी डी मुक्तम् । मै. ९ बी सी डी प्रतिकु. १० ए बी सी डी प्रतिखे'. ११ बी प्रतिदि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy