SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [ है० २.३.९९.] चतुर्थः सर्गः । ३१९ प्रावनद्ध । इत्यत्र “पदेन्तरे' [९३] इत्यादिना न णः । अनाडीति किम् । प्राणद्धाम् ॥ अतद्धित इति किम् । शुष्कगोमयेण ॥ प्रघ्नन्,। इत्यत्र "हनो घि' [९४] इति न णः ॥ .. नरीनृत्यमान । नरिनति । इत्यत्र "नृतेर्यङि" [९५] इति न णः ॥ अक्षुश्नत् । इत्यत्र “शुभ्नादीनाम्" [१६] इति न णः ॥ गर्भनमत्वष्कणासहैणीष्ट्यूताः ष्टयायंस्तमुज्जयन्तम् । यो विस्रमकल्पयत्स नः किं मित्रं स्यान्म्लेच्छीकृपीटकृप्तः ॥३३॥ ३३. यो ग्राहारिस्तं महातीर्थराजतया प्रसिद्धमुजयन्तं वित्रं दुर्गन्धमकल्पयच्चके । यतो गर्भेण नमन्त्यः प्रवीभवन्त्योत एव ध्वष्कणासहा गमनाक्षमा या एण्यो मृग्यस्ताभिः प्ठयूतानि प्रहारवशानिरस्तानि यान्यस्राणि रक्तानि तैः कृत्वा तं ष्टयायन्संबन्धयन्स ग्राहारिम्र्लेच्छयाः कृपीटमुदरं तस्मात्कृप्तो जात इवोक्तरीत्यातिनिकृष्टाखेटेककारित्वात्किरातादिनीचजातितुल्यो नोस्माकं क्षत्रियाणां मित्रं किं स्यान्नैवेत्यर्थः ॥ नमत् । इत्यत्र “पाढे धातु” [९७] इत्यादिना णस्य नः ॥ सहा । इत्यत्र ":" [९८] इत्यादिना पस्य सः ॥ ष्टयादिवर्जनं किम् । ष्ट्यायन् । ठयूत । ष्वष्कण॥ • कृप्तः । अकल्पयत् । इत्यत्र "कर ललम्” [९९] इत्यादिना ऋरयोललौ॥ अकृपीटादिष्विति किम् । पीट ॥ प्लत्ययमानान्पलायमानान्यो गिलति निजेगिल्यते परस्तम् । गिरति तमन्योस्य मात्स्यनीतौ भुजपलिघः परिघत्वभाकथं नः॥३४ ३४. नोस्माकं भुजपलिघो भुजार्गला कथं परिघत्वभाक् स्यात् । १ सी थं न ॥ १ सी 'नो यि" इ. २ बी टका'. ३ बी " स' इ. ४ बी कुप्त । अ. ५ ए डी पीटः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy