SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१८ व्याश्रयमहाकाव्ये [मूलराजः] प्राणद्धाञ्छुष्कगोमयेण प्रघ्नन्यो नरिनति यायजूकान् । तस्य नरीनृत्यमानखड्गस्याक्षुभ्नन्मनसः किमन्यदागः॥ ३२॥ ३२. यायजूकानृत्विजः प्रणिघ्नन्सन्यो ग्राहारिरिनति संतोषेणाभीक्ष्णं नृत्यति । कीदृशान्सतः । शुष्कगोमयेणाग्नौ हवनार्थं गृहीतेन करीषेण प्राणद्धान् । एतेन साक्षाद्यागकारितोक्तिः । क्रियमाणे हि यागे वैवस्वतं कालमुद्दिश्य कारीषहोमः क्रियते । तस्य ग्राहारेरक्षुभ्नन्मनसो निर्भीकस्यात एव नरीनृत्यमानखड्गस्य यायजूकवधाय पोस्फूर्यमाणासे: किमन्यदागोपराधः । इदमेव महदाग इत्यर्थः ॥ परिमाणम् परिमापन । परिमापिणाम् परिमापिना । प्रयापणीयः परियापनीये । इत्यत्र "गर्वा" [८] इति वा णः॥ ' निर्विण्णम् । अत्र "निर्विण्णः" [८९] इति णत्वं निपात्यते ॥ कश्चित्तु निर्विण्णवदिति चेच्छति ॥ अप्रख्यानम् । अप्रपवनम्। परिभूयमानम् । अप्रभानम् । दुष्परिकामिनः । प्रगमन । अप्रप्यान । अप्रवेपमान ॥ ण्यन्तेभ्योपि । अप्रख्यापनम् । परिपावन। . परिभाव्यमानम् । परिभापनः । प्रकामनेन । सुप्रगम्यमानः। अप्रप्यायनम् । परिवेपनेन । इत्यत्र "न ख्यापूरभूभा” [९०] इत्यादिना न णः ॥ ख्यातेर्णत्वमिति कश्चित् । दुष्प्रख्याण ॥ . अन्तरयनताम् । अन्तर्हननत्वम् । इत्यत्र "देशे” [९१] इत्यादिना न णः॥ देश इति किम् । अन्तरयण । अन्तर्हणनात् ॥ . ........... सर्पिष्पान । इत्यत्र “पोत्पदे" [९२] इति न णः ॥ १ सी नविन'. २ बी थे ग्रही'. ३ बी पण प. ४ ए बी सी डी पनम् । प. ५ ए सी डी नीयः । परियापनीयः । इ... ६ बी “णे वा" इ. ७ बी पात्यम् । क'. ८ सीन। आप्र. ९ सी वनम् । प. १० बी ख्याणः ॥ अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy