SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [है० २.३.८७.] चतुर्थः सर्गः । येश्च णिगि भावेनटि नत्रा बहुव्रीहिः । लोकमध्ये प्रकाश्यमेतत्कारकनिग्रहेणावर्धनीयं चेत्यर्थः । कुकर्मायत्तोयं तदनेन सह का मे मैत्रीत्यर्थः ॥ अमुना परिवेपनेन भग्नः परिपावनपरिभापनः प्रभासः । दुष्प्रख्याणप्रकामनेनान्तर्हननत्वं सुप्रगम्यमानः ॥ ३० ॥ ३०. परिपावनः पापमलापनेतृत्वात्पावित्र्यहेतुर्य: परिभापनो लक्ष्म्यादिसंपादनेन शोभापादनहेतुः स प्रभासस्तीर्थममुना प्राहारिणा भग्नः । यतोन्तर्हननत्वमन्तर्हन्यते स्मिन्नित्यन्तर्हननो देशो यत्र मध्यभागे लोको हन्यते तद्भावं मध्यभागे लोकघातमित्यर्थः । सुप्रगम्यमानः प्राप्यमाणः । कीदृशेन सता । दुष्प्रख्याणे दुष्टख्यातौ प्रकामनमभिलाषो यस्य तेनात एव परिवेप्यते जगद्येन तेने परिवेपनेन प्रच्छन्नधाटीप्रदानादिनाखिललोककम्पकेन । मध्येलोकं नता प्रभासदेशोमुनोपद्रुतोतोमुना सहालं मैत्र्येत्यर्थः ॥ अन्तरयनतां जहाँ सुराष्ट्रा येनान्तरयणवारिणा जनानाम् । सोन्तर्हणनात्कथं ह्युपेक्ष्यः सर्पिष्पानप्रावनद्धपिण्डः ॥ ३१ ॥ ३१. जनानामन्तरयणं मध्ये गमनं प्रच्छन्नधाटीप्रदानादिना वारयतीत्येवंशीलो यस्तेनान्तरर्येणवारिणा सता येन कृत्वा सुराष्ट्रादेशो - न्तरयनतामन्तर्मध्ये सुस्थत्वेनाय्यते गम्यते यैस्यां सान्तरयनी तद्भावं जहौ तत्याज । येन कृत्वा दुर्गमाभूदित्यर्थः । स प्राहारिः सर्पिष्पानेन प्रावनद्धं पीनं पिण्डमङ्गं यस्य सोतिबलिष्ठ इत्यर्थः । हि स्फुटमन्तईणनात्सुराष्ट्रामध्ये वधात्सकाशात्कथमुपेक्ष्यो मोच्यः सुराष्ट्रामध्ये वध्य एवेत्यर्थः ॥ १ बी 'म. 'यनवा ५ बी ध्ये स्वस्थ.. ३१७ Jain Education International २ डीन प्र ३ ए सी मैत्रेय'. ४ ए सी डी ६ ए सी 'स्यां सांरतय. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy