________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
सत्पथपरिमापिणां धर्मोच्छेदकानामन्यायिनाम् । कर्मणि षष्ठी । अनिर्विण्णमनिवेद यथा स्यादेवं परिमापिना हिंसनशीलेन भाव्यम् । राजरक्षितानि हि तपोवनानि स्युः ॥
३१६
निर्विण्णवदाप्रवेपमानामप्यानाप्रख्यानमप्रभानम् ।
अमुना परिभूयमानमुच्चैः कतमब्रह्मपुरं दुनोति नास्मान् ॥ २८ ॥
२
२८. कतमद्ब्रह्मपुरं ब्राह्मणस्थानमस्मानुचैर्न दुनोति न पीडयति । कीहक्सत् । अमुना प्राहारिणा परिभूयमानमत एवाप्रवेपमानं भयेन समन्तात्कम्पमानम् । तथाप्रध्यानमनुपचितं क्षीणमित्यर्थः । अत एवाविद्यमानं प्रख्यानं प्रसिद्धिर्यस्य तन्निर्नामकमित्यर्थः । ततो विशेषणकर्मधारयः । अत एव निर्विण्णवद्धर्मकर्मसु निर्विण्णमत एव चाविद्य-, मानं प्रभानं प्रभा यस्य तन्निस्तेजस्कम् । तस्मात्कानेर्ने मैत्रीति भावः । यदपि ब्रह्मपुरं ज्ञानाधारः शरीरं तदपि पापै रोगादिना वा परिभूयमानमत एवाप्रवेपमानाप्राप्यानाप्रख्यानं निर्विण्णवदप्रभानं च सत्कतमन्न दुनोति किं तु सर्वमपि ज्ञानोच्छेदशङ्कया दुःखयतीत्युक्तिः ॥ अप्रपवनमस्य चान्यदारमगमनदुष्परिकामिनः कुकर्म । प्रभवति परिभाव्यमानमंप्रख्यापनमप्रप्यायनं भृशं नः ॥ २९ ॥
२९. कुकर्म परस्त्रीगमनादि । अस्य प्राहारेरन्यदारप्रगमनदुष्परिकामिनः परस्त्रीसेवनविषयदुष्टाभिलाषशीलस्य सतः प्रभवतीष्टे । कीदृशम् । अप्रपवनमिहलोक परलोकविरुद्धत्वेनापवित्रमत एव भृशमत्यर्थ परिभाव्यमानमस्माभिश्चिन्त्यमानं सन्नः । कर्तरि षष्ठी । अस्माभिरप्रख्यापनमप्रप्यायनं च । चो भिन्नक्रमेत्र योज्यः । प्रख्यातेः प्रप्या
1
१ ए सी डी मंत्र प्र .
•
१ ए बी सी डी 'पिणा हिं. २ बी 'ति । अ. ३ सी 'भाय ४ बी 'न मै. ५ एसी त्रीरिति ६ ए सी डी 'त ईष्टे प्रभवति । की. ७ सी डी 'यन व चो..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org