________________
[है० २.३.८७.] चतुर्थः सर्गः।
३१५ परिकोपणमप्रकोपनोथाहःप्रवपणदुष्प्रेहणं सहे चेत् । अघनिरवश्यं प्रगोपणीया कथमिव तर्हि मया प्रगोपनीया ॥२६॥
२६. अथेति दूतप्रश्ने। दूत पृच्छामि त्वां चेद्यद्यहमप्रकोपनः क्षमाशील: संस्तं ग्राहारिं सहे न निगृह्णामीत्यर्थः । कीदृशं सन्तम् । परिकोर्पणं धार्मिकमप्यसहिष्णुं तथांहस: पापस्य वञ्चनादेः प्रवपति नन्दाद्यने प्रोप्यतेनेनेति करणेनटि वा प्रवपण उत्पादक इत्यर्थः । यो दुष्प्रेहणो दुष्टचेष्टो दुष्टाभिप्रायो वा तम् । तर्हि तदावश्यं प्रगोपणीया पृथ्वीपत्वेन रक्षणीयावनिः पृथ्वी कथमिव । इवशब्दो वाक्यालंकारे। केन प्रकारेण मया प्रगोपनीया रक्षणीया। न कथमपि । तस्मान्न सह इत्यर्थः । अत्र घप्रगोपणीयेत्यस्यानुवाद्यत्वेन प्रयोगः। प्रगोपनीयेत्यस्य तु विधेयत्वेन ॥
परिकोपणम् अप्रकोपनः । प्रगोपीया प्रगोपनीया । इत्यत्र “व्यञ्जमादेः" [८७] इत्यादिना वा णः ॥ व्यञ्जनादेरिति किम् । दुष्प्रेहणम् । नाम्युपान्त्यादिति किम् । प्रवपण ॥ परिमापणमाः प्रयापणीयः परिमापनपरियापनीयविमः। सत्पथपरिमापिणां नृपेणानिर्विण्णं परिमापिना हि भाव्यम् ॥२७॥
२७. मींग्श हिंसायामिति मींग्शो हिंसार्थत्वाद्धन्त्यर्थाश्चेति चुरादिपाठात् "चुरादिभ्यो णिच्" [३.४.८५.] इति णिचि “मिग्मीगोखलचलि" [४.२.८] इत्यात्वे पावनटि च परिमापनं हिंसां परियापनीयाः प्रापणीया विप्रा येन स ग्राहारिः । आ इति कोपे । परिमापणं हिंसां प्रयापणीयः प्रापणीयो मया ने तु मित्रीकार्य इत्यर्थः । हि यस्माद्धेतोनूपेण राज्ञा
१ ए सी नोथाहप्र. १ बी न । हे दू. २ ए बी सी पनं. ३ बी मिकानप्य. ४ डी नन्द्याद्य. ५ सी °भियो'. ६ ए सी डी °णीयाः प्र. ७ ए सी किम् ॥ परि'. ८ ए सी लवलि". ९ ए सी पणहिं. १० ए ननु मि०..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org