SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३१४ व्याश्रयमहाकाव्ये मूलराजः त्मानं परियाणीयमस्माभिरास्कन्दनीयं न वेत्ति न जानात्यपि तु स्वकृतैमहापन्यायहेतुभिः स स्वं परियाणीयं जानात्येवेति काका व्याख्या । अथ च प्रयायिणां प्रयाणं कुर्वतां नोस्माकम् । कर्तरि षष्टी । परियाणे प्रयाणे विषयेप्रयाणिं परिवक्ति च प्रयागंमा भूदिति शापं ब्रूते च । एवमनेकान्महापन्यायान् ग्राहारिश्चक्रेन्यच्चास्मानभिषेणयतो निषेधेतीत्यर्थः । एतेन रसेनाविरलेनागमकारणं बुभुत्सुरिति यहूतेनोक्तं तन्निरस्तम् ।। अथ सामोक्तिगर्भ सामदण्डोक्तिगर्भ च यहूतेन मैव्येव कार्यतयोक्ता तामेकादशभिर्वृत्तैरनेकापन्यायरूपापराधप्रकाशनेन निराकुवन् ग्राहारेनिग्रहणीयतामेव समर्थयति । ___ परिभुनप्रेक्षमाणचापो यत्तीर्थाभिप्रेङ्गिणां स पापः । प्रेङ्गणमरुणत्प्रमङ्गनैस्तच्छासितुमेष प्रेङ्गणीय एव ॥ २५॥ . २५. स ग्राहारिस्तीर्थाभिप्रेङ्गिणां तीर्थयायिनां यात्रिकाणां प्रेङ्गणं तीर्थेषु गमनं यद्यस्माद्धेतोररुणनिरुरोध । कीडक्सन् । पापः पापात्मा। तथा परिभुमप्रेङ्खमाणचाप: कुटिलोल्लसद्धन्वा तत्तस्मात्प्रमङ्गनैः प्रयाणैः कृत्वा शासितुं शिक्षयितुमेव ग्राहारिः प्रेङ्गणीय एवास्कन्दनीय एव न तु मित्रीकार्य इत्यर्थः । प्रेङ्खमाणेत्यत्र शीले शानः ॥ परिहीण । ग्रहीणवान् । परियाणे । प्रयायमाणः । प्रयायिणाम् । अप्रयाणिम् । परियाणीयम् । इत्यत्र "खरात्" [८५] इति गः ॥ स्वरादिति किम् । परिभुनै ॥ प्रेङ्गणम् । प्रेडमीण । प्रेङ्गिणाम् । प्रेङ्गणीयः । इत्यत्र "नाम्यादेरेव ने" [८६] इति णः । नाम्यादेरित्येव । प्रमङ्गनैः ॥ १ सी भि: संस्वं. २ ए सी डी का वाख्या ।। ३ ए सी रि आणे. ४ बी सी एकम'. ५डी धयती'. ६ सी न मिव स. ७ ए निरांकु. ८ सी ङ्गिणा ती. ९ डी णवा. १० ए सी रिआणी. ११ ए सी डी मः । प्रे. १२ ए सी °माणे । प्रे. ----... रियो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy