SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये [मूलराजः] समाप्त्यर्थ इतिशब्दो योज्यः । तथा स्वाधीनो रतगुणाकृष्टत्वेनायत्तो भर्ता यासां ताः स्वाधीनभर्तृका: "क्षियाशीः औषे" [७.४.९२.] इति सर्वत्र प्लुतः ॥ व्रज३ आस्स्त्र । इत्यत्र "प्लुतोनितौ" [३२] इत्यसंधिः ॥ अनिताविति किम् । आस्स्वेति । अत्र प्लुतस्य संधिः ॥ केचित्त्वितिशब्दे विकल्पमिच्छन्ति । आस्स्व३ इति आस्स्वेति ॥ ब्रूहि३ इदम् । इत्यत्रे "इ३ वा" [३३] इति वासंधिः ॥ पक्षे । ब्रूहीति । अत्रापि प्लुतस्य संधिः ॥ मणी इव जपावर्णकुसुमे हारिणी अपि । अहो३ किं विश्दमू३ अग्नी३ इत्युज्झ्येते इहार्भकैः ॥२८॥ २८. इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदौ तयोः कुसुमे मणी इव रत्ने इव हारिणी अपि । मणयो हि सामान्येन कान्तिमन्तो रक्ताश्च वर्ण्यन्त इति कान्तिमत्तारक्तताढ्यतया मनोहरे अप्यभकैबोलकैरुज्झ्येते त्यज्यते । ननु बालका रम्यं वस्तु कौतुकाद्वालस्वभावाच्च प्रत्युत गृह्णन्ति तत्किमिति हारिणी अपि ते त्यज्येते इत्याह । अहो ३ किंस्वि३दमू३ अग्नी३ इतीति । अमू जपावर्णकुसुमे किमग्नी वह्निकणाविति बुद्ध्या । अहो इति किंस्विदिति च निपातद्वयं वितर्कातिशयद्योतनाय । वितर्कस्य चान्तरात्मप्रश्नरूपत्वात् "प्रश्ने च प्रतिपदम्" [७.४.९८.] इति प्लुतः ॥ सावाद्वाल्याच्चाग्निकणभ्रान्तिः ॥ १ सी डी वणे कु. १ एफ ति प्लु. २ सी डी त्र वा. ३ सी डी [लैरु, ४ सी सनद्व. ५ एफ ल्याद्वाग्नि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy