SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ [ है० १.२.३१.] प्रथमः सर्गः । गोष्ट्रिभिर्गवेन्द्रासैर्गवुष्ट्रप्रियवीरुधः । गोअग्रस्थायिभिश्चास्य निषेव्यन्ते वहिर्भुवः ॥ २६ ॥ I २६. अस्य पुरस्य बहिर्भुवो बाह्यभूमयो गावश्रोष्ट्राश्च गवोष्ट्रमस्त्येषां तैर्गवोष्ट्रिभिर्गोपालोष्ट्रपालैर्गवोष्ट्रस्य चारणाय निषेव्यन्ते । किंभूतैः । गवामिन्द्रो गवेन्द्रः शण्डस्तदंसवदंसौ स्कन्धौ येषां तैः । गोदुग्धोष्टीदुग्धपानेनावलितस्कन्धैरित्यर्थः । तथा गोर्वृषस्याग्रमग्रभागः ककुत्प्रदेशस्तत्र तिष्ठन्तीत्येवंशीलास्तैगअग्रस्थायिभिश्च वीवधाहारिभिश्च वीवधाहरणाय च सेव्यन्ते । यतः कीदृश्यः । गवुष्ट्रस्य वृषकरभव्रजस्योपलक्षणादश्वादेश्व प्रिया वीरुधो लता यासु ताः । पत्तनगोचरे हि वृषभोष्ट्रादिप्रियचारिसंकीर्ण महद्वनमस्ति ॥ 1 पित्र्ये । इत्यत्र "ऋतो रस्तद्धिते " [२६] इति रादेशः ॥ पक्षेत्र । गोक्ष । इत्यत्र " एदोत:" [२७] इत्यादिनास्य लुक् ॥ 1 २३ गवाक्ष । इत्यत्र “गोर्नानि " [२८] इत्यादिना अवादेशः ॥ नाम्नीति ४ किम् | गोक्ष || कश्वित्त्वसंज्ञायामपि गवाक्षेतीच्छति ॥ गवोष्ट्रिभिः गवुष्ट्र । इत्यत्र "स्वरे वानक्षे" [२९] इति वावादेश: ॥ अनक्ष इति किम् । गोक्ष ॥ गवेन्द्र । इत्यत्र “इन्द्रे” [३०] इत्यवः ॥ 1 गो । इत्यन्न " वात्यसंधिः " [३१] इति वासंधिः ॥ पक्षे | गोक्ष ॥ व्रज३ आस्स्वेति मा वास्स्व३ इति स्वाधीनभर्तृकाः । इदं ब्रूहि इदं मा वा ब्रूहीत्याहुरिह प्रियम् || २७ ॥ २७. सुगम: । नवरं व्रज३ इत्यत्र इदं ब्रूहि इत्यत्र च वाक्यपरि१ ए ंषां ते गो ं. २ ए एफ् 'ला ये तैगों. ३ डी सी 'दृशो गरौं. ४ एफ् गोक्षः । ५ एफ् गोक्षः . ६ ए सी डी ब्रूहीत्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy