SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ [है० १.२.३४.] प्रथमः सर्गः । मणीव मसृणौ चक्रदंपतीव युतौ स्तनौ । विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ॥ २९ ॥ २९. अत्र पुरे स्त्रीणां स्तनौ भातः । कीदृशौ । मणीव रत्ने इव मसृणौ कठिनकोमलौ । तथा चक्रदंपतीव । जाया च पतिश्च दंपती चक्रश्च चक्री च चक्रौ चक्रौ च तौ दंपती च चक्रदंपती चक्रवाकमिथुनेम् । तौ यथा प्रेमातिरेकादन्योन्यं युतौ भवतस्तथा युतावतिस्थूलत्वादन्योन्यं मिलितौ । उत्प्रेक्ष्येते । रोदसी द्यावापृथिव्यौ जेतुं पराभवितुं स्मरायुधे इव कामशस्त्रद्वयमिव रोदस्योरपि द्वयोर्जेतव्यत्वात् ॥ 3 I 1 हारिणी अपि । अमू३अग्नी । उज्झयेते इह । इत्यत्र " ईदूदेद्विवचनम् " [३४] इत्यसंधिः ॥ एषां लुतानामितावपि संधिर्न स्यात् । अग्नी३ इति ॥ केचित्तु मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममेति प्रयोगदर्शनान्मणी इव मणीवेत्यादावसंधिप्रतिषेधं वर्णयन्ति तदयुक्तम् । वाशब्देनोपमार्थेन सिद्धत्वात् ॥ अन्ये तु यथादर्शनं संधिमसंधिं वेच्छन्ति । मणीव । दंपतीव । रोदसीवं । मणी इव ॥ अमी अमुमुचस्य नखाः कण्ठे इ ईक्षिताः । अहि त्वमु उत्तिष्ठ यद्या एवं तु मन्यसे || ३० ॥ read अस्मिनी ईदृशि रतिः कथम् । तो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ ३०, ३१. अत्र पुरे किल काचिन्नायिका पत्यौ सपत्नीनखक्षता १ सी अत ए १ डी 'नमेतो. ४ सी डी तुं स्म ४ Jain Education International २ एफ् ताविति ५ डी 'ति प्रायो २५ ३ सी डी प्रेक्षेते. एफ् स्प्रेक्षते. ६ ए सीव ॥. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy