________________
[ है० २.३.७८.] तृतीयः सर्गः ।
३०९ पश्चाद्गमिष्यसि । अत्रैव त्वं विनवयसीत्यर्थः । तस्मादुर्वराया अविनाशनेन मैत्री कुर्वित्यर्थः ॥
अथैवं भक्तिशक्त्युपदर्शनेन मैत्र्यां विधेयतयोक्तायामपि राज्ञि किमप्यवदत्यवाच्यं छलं संभाव्य पृच्छंस्तदुचितदण्डोक्त्योत्तरयंश्चाह । अथ दुर्निगदं छलं त्वमन्तर्घ्यदधास्तत्पणिजल्पितेन किं नः । मा पनिजल्पाधुना कृतान्तः प्रनिकुर्व-प्रनिखेलतु प्रनिविद् ॥१८॥
१८. अथेति प्रश्ने। दुर्निगदं पापैत्वाहुःखेन वाच्यं छलमतिप्रच्छन्नास्कन्दनादिकूटप्रयोगं त्वमन्तश्चित्ते न्यद्धा निहितवांस्तत्तदा नोस्माकं प्रणिजल्पितेन पूर्वोक्तेन किम् । निरर्थकत्वान्न किंचिदित्यर्थः । तथा मा प्रनिजल्प त्वमपि मा वादीस्त्वत्प्रतिवचनेनापि सृतमित्यर्थः । केवलं हे प्रनिद्विट् प्रकृष्टनिश्चितशत्रोधुना प्रनिकुर्वन् रणेन मृत्युरूपं शाठ्यं कुर्वन्कृतान्तो यमः प्रनिखेलतु प्रक्रीडत्वर्थात्त्वया सह । आशिषि पञ्चमी । त्वं ग्राहारिणा व्यापाद्यस्वेत्यर्थः ॥
तदेवं दण्डमुक्त्वा राज्ञेश्छलं ग्राहारेञ्जपयितुं स्वयानमाह । प्रनिचिखनिषता त्वयामदाख्यां निचक्रे प्रणिपापचत्रकोपम् । तदलं प्रनिपापचन्मनास्त्वत्मणिदिष्टं निदेष्टुमेष यामि ॥१९॥
१९. यस्मादस्मदाख्यामस्मत्कीर्ति प्रनिचिखनिषतैवमास्कन्दनेन खनितुमिच्छता त्वया प्रणिपापचदत्यर्थसंतापकः प्रकोपः प्रबलक्रोधो यत्र तद्यथा स्यादेवं पँनिचक्रे पराभूतम् । अस्माकं पराभवः कृत
१ ए सी डी प्रतिखे'. २ डी प्रतिच. ३ ए सी डी प्रतिदि'. ४ सी डी प्रतिदे.
१ सी र्शमेन. २ बी °परूपत्वा. ३ सी प्रतिदि. ४ बी प्रतिखें. ५ ए सी डीज्ञस्थलं. ६ ए सी °नेख. ७ डी प्रतिच.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org