SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०८ व्याश्रयमहाकाव्ये [ मूलराजः] मास्म प्रणिष्यो मा स्म विनीनशः । ईयाँ मा कृथा इत्यर्थः । एतेन ग्राहारिसंबन्धिषूक्तेषु गुणेष्वेकगुणोपेतमपि मित्रं दुर्लभं किं पुनरुक्तसर्वगुणोपेतम् । यदुक्तम् । पराक्रमगुणेनैकं सदी चाश्रितपोषकम् । सन्यायं संपदोपेतं मित्रं पुण्यैरवाप्यते ॥ इति । एवंविधेन चानेन चेद्विग्रहं करिष्यसि तदा त्वमेव विनङ्ग्यसीत्यपि च व्यजितम् ॥ अाजन्यभूम्युपद्रवमपि सामदण्डगर्भोक्त्याविधेयं वदन्मैत्रीमेव विधेयतया सूचयन्नाह । प्रणिशान्तरिपाविहामणिद्रे प्रणिवहति प्रणिचायि सख्यमुच्चैः । प्रणिवात्पणिदिग्धसैन्यरेणुः प्रणियास्यस्य किमुर्वरां प्रणिप्सान् १७ १७. इह ग्राहारौ प्रणिचीयते स्वयमेवेत्येवंशीलं प्रणिचाय्युपचितं सख्यं प्रस्तावात्त्वद्विषयमुच्चैरत्यर्थं प्रणिवहति धारयति सत्यस्य ग्राहारेरुर्वरां सर्वसस्याट्यभूमिं किं किमिति प्रणियासि गच्छसि । कीदक्सन् । प्रणिप्सान्भक्षयन् । तथा प्रणिवानुड्डीयमानः प्रणिदिग्ध उपचितः सैन्यरेणुर्यस्य सः । प्रभूतसैन्यैर्विनाशयन्नित्यर्थः । कीदृशीह । अप्रणिद्रे सोद्यमेत एव प्रणिशान्तरिपौ वशीभूतशत्रौ । शक्तस्य स्निग्धस्य च मित्रस्योर्वरोपद्रोतुं नोचितेत्यर्थः । अथ च । इह ग्राहारौ प्रणिशान्ते पराभूत्या गतदर्प रिपौ विषये न तु त्वत्सदृशे दर्पोद्रे प्रणिचायि सख्यं प्रणिवहति सत्यस्योर्वरां त्वं प्रणिप्सान्सन्कि प्रणियासि १ बी डी वान्प्रणि'. २ ए सी यास्यि कि'. १ ए सी °दा वा श्रि. २ डी श्रित्य पो. ३ डी दोपत्यं मि. ४ सीमेवं वि. ५ सी चैरित्य'. ६ सी ये तनुत्व'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy