________________
[है० २.३.७८.] चतुर्थः सर्गः। ___ तदेवं सामोक्त्यात्यन्तसौहार्दे ख्यापितेपि राज्ञः किमप्यप्रतिवदतो दौहार्द प्रकटयन्नेवमागमैनकारणं पृच्छति ॥ परिणिमिमीते दिशः स सैन्यैः प्रणिमयते प्रणिदायकेथ भीतान् । प्रणिदयतेरीन्प्रणिद्यतीति प्रणिधिगिरा प्रणिपद्यसे किमीवा॑म् १५
१५. स ग्राहारिः सैन्यैर्दिशः परिणिमिमीते परिमायतिबाहुल्याब्याप्नोतीत्यर्थः । तथा प्रणिदायके मैत्र्यादिना गजाश्वधनादिढौकनं स्थापनिकां वा ददति पुंसि प्रणिमयते प्रतिददाति न्यायित्वान्नगृहीत्वा तिष्ठतीत्यर्थः । अथ तथा भीतान् शरणागतान्प्रणिदयते रक्षति । तथारीन्प्रणिद्यति खण्डयतीत्येवंविधया प्रणिधिगिरा चरवाचा किमीयो ग्राहारेः सैन्यादिसंपत्तौ न्यायादिगुणसंपत्तौ च चेतसो व्यारोष प्रणिपद्यसे आश्रयसि । परसंपत्त्यसहा हि प्रायः क्षत्रियास्तेनैतं विग्रहीतुं तवेत्थमत्रागमनमित्यर्थः ॥ ___ अथ कालप्राप्तया सामदण्डगर्भोक्त्येदमप्ययुक्तमित्याह । प्रणिधयति यशो द्विषां प्रणिनन्मणिवपति प्रणिपातिषु श्रियं यः। पणिगदति नयं तदत्र मैत्री प्रणिनादीभघटे स्म मा प्रणिश्यः १६
१६. यो ग्राहारिद्विषां प्रणिनन् शत्रून् हिंसन्सन् द्विषामेव यशः प्रणिधयति पिबत्यपहरति । तथा प्रणिपातिषु नम्रेषु श्रियं राज्यादिसंपदं यः प्रणिवपति निवेशयति। एतेन निग्रहानुग्रहसामर्थ्यमुक्तम् । तथा यो नयं न्यायं च प्रणिगदति प्रकर्षेण वक्ति । तदत्र से चासावेष च तदेष तस्मिन्नेतस्मिन् ग्राहारौ प्रणिनादिनी गर्जन्तीभघटा यस्य तस्मिन्मैत्री
१ सी श्रियः ।
१ बी मका. २ डी सि म. ३ डी तौ वा चे. ४ बी सचैष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org