SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] तदैवं मैत्रीगर्भेषु बहुष्वप्यागमकारणेषूक्तेष्वमन्यमान इव राज्ञि किंचिदप्रतिवदत्यन्यकारणाभावानिरर्थकं बलभ्रमणं न युक्तमिति वदति । प्रहयानि बलान्यदुर्नयस्त्वं न मुधैव भ्रमयेः प्रनायकानि । परिणश्यति जीवितेपि मैत्री नान्तर्णश्यति नोप्रनष्टपूर्वा ॥१४॥ १४. हे राजन् प्रहयानि प्रकृष्टाश्वानि प्रनायकानि प्रकृष्टस्वामिकानि च बलानि मुधैव पूर्वोक्तनीत्या कारणाभावेन निरर्थक न भ्रमयः । नो मार्थे । नाचीचलः । यतस्त्वमदुर्नयो न्यायीत्यर्थः । न चास्माशत्रुतांशङ्कयैवं सैन्यसंरम्भेणागमनं सार्थकं यतोप्रनष्टपूर्वा पूर्वमनपगता नो युष्माकमस्माकं च । “त्यदादिः" [३. १. १२० ] इत्यमच्छेषैः । मैत्री जीविते परिणश्यत्यपि नान्तर्मध्ये हृदये नश्यति । येयन्ति दिनानि न गता साद्यापि मैत्री कथंचन नापयातीत्यर्थः ॥ कवर्ग । वृषगामिणम् । गुरुकामाणि । नृमुखेण ॥ एकस्वर । वृत्रहणम् । सन्नृपाणि । सुराष्ट्रपाणाम् । इत्यत्र “कवर्ग" [७६] इत्यादिना नित्यं णः ॥ अपक्कस्येत्येव । वरपक्केन ॥ ण । प्रणमामि ॥ अन्तर् । अन्तर्णिनीषुः ॥ हिनु । प्रहिणोमि ॥ मीना । मा प्रमीणाः ॥ आनि । प्रयाणि । इत्यत्र “अदुरुपसर्ग" [७७] इत्यादिना णः ॥ आनीत्यर्थवत एव ग्रहणादनर्थकस्य न भवति । प्रहयानि । अदुरिति किम् । अदुर्नयः ॥ येन धातुना युक्तोः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्तीतीह न भवति । प्रनायकानि ॥ परिणश्यति । अन्तर्णश्यति । अत्र "नशः शः" [७८] इति णः ॥ श इति किम् । अप्रनष्टं ॥ १बी । माची. २ सी शक्यैवं. ३ बीपः । मेत्री. ४ बीर्थ ए. ५ बी ताः प्रदाय. ६ ए सी डी तिर्नशः. ७ बी नष्टः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy