SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [है० २.३.७५.] चतुर्थः सर्गः । ३०५ उत्तरपदान्त । सागरवाहिणम् गर्ववाहिनम् ॥ नागम । परीण्वन् परीन्वतः ॥ स्यादि । रिपुवापेण शरवापेन । इत्यत्र “वोत्तर' [७५] इत्यादिना वा णः ॥ अयुवपक्वाह्न इति किम् । क्षत्रिययूनः । परिपक्वानि । परिपक्केन । दीर्घाह्वयाम् ॥ द्रष्टा वृपगामिणं नु बिभ्रद्गुरुकामाणि बलानि सन्नृपाणि । तं वृत्रहणं सुराष्ट्रपाणां सन्चमुखेण न हि व्यबोधयः किम् ॥१२॥ १२. वृषगामिणं वृषभवाहनं सोमनाथं सन्नृपाणि विद्यमानराजकानि बलानि सैन्यानि विभ्रद्धारयन्सन्नु किं द्रष्टा आगा: । नन्वहं चेत्सोमनाथदर्शनायागां तत्किमिति सन्नृपाणि बलान्यबिभरमित्याशङ्कयाह । यतो गुरुमहान्कामो वृषगामिदर्शनाभिलाषो येषां तानि । सुराष्ट्रदेशे हि सोमनाथोस्ति । यद्येवं तर्हि सुराष्ट्रपाणां सुराष्ट्रदेशरक्षिणां नृपाणां वृत्रहणमिन्द्रं तं पाहारि सन्नृमुखेण प्रधानपुरुषमुखेन हि स्फुट किं न व्यबोधयः किमिति नाज्ञापयः । येनायं सौहार्दातिशयात्तवाभिगमनादिप्रतिपत्तिं कुर्यादित्यर्थः ॥ वरपक्केनेक्षुणा समं किं शङ्खोद्धारान्तर्णिनीपुरम्भः। प्रणमामि तव प्रयाणि तत्कि पहिणोमि स्म वनानि मा प्रमीणाः १३ १३. वरपक्केन वरेण सुस्वादुना पक्केन परिपूर्ण निष्पन्नेनेक्षुणेक्षुरसेन समं माधुर्यादिभिस्तुल्यं किं शङ्खोद्धारान्तः शङ्खोद्धाराख्यतीर्थमध्यादम्भो जलं निनीपुर्नेतुमिच्छुस्त्वमागाः । सुराष्ट्रेषु हि शङ्खोद्धाराख्यं तीर्थमस्ति । प्रश्नयन्नेवोत्तरमाह । किं तव प्रणमामि तथा किं प्रयाणि शङ्खोद्धारजलानयनाथै गच्छामि । तथा तदम्भः किं प्रहिणोमि प्रेषयामि । वनानि काननानि मा स्म प्रमीणा मा विनाशय । १ ए सी दृष्टा. डी दृष्ट्वा वृ. १बी पवा. २ ए सी डी कि दृष्टा. ३ ए सी डी गाः । अन्व'. ४ ए सी डी न्यवितर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy