SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०४ याश्रयमहाकाव्ये [ मूलराज: ] अथ सागरवाहिणं जिगीषुर्नृपतिं कंचन गर्ववाहिनं त्वम् । क्षतरिपुवापेण तं स जिष्णुः शरवापेन न किं दिशः परीण्वन् ॥१०॥ १०. अथेति प्रश्ने । सागरशब्देनात्र लक्षणया सागरकूलमुच्यते । तं वहति स्वामितया प्राप्नोतीत्येवंशीलो यस्तं वेलाकूलाधिपं गर्ववाहिनमहकारिणं कंचन नृपतिं जिगीपुस्त्वमागाः । आगमकारणप्रश्नप्रस्तावात्पूर्ववृत्तादागा इति क्रियात्र संबैध्यते । एवमप्रेतनवृत्तत्रयेपि । एतदपि परिहरति । स ग्राहारिस्तं नृपतिं किं न जिष्णुरपि तु साधु जयत्येव । कीदृक्सन् । क्षता विदारिता ये रिपवस्तान्भूमौ पातनेन वपतीव अणि क्षतरिपुवापस्तेन । यद्वा । क्षतो रिपुवापो लक्षणया शत्रुसन्तानो येन तेन शरवापेन बाणसन्तानेन दिशः परीण्वन् व्याप्नुवन् । तव कथनेन प्राहारिरेव निकटस्थः सुखेनैव तव शत्रुं जयेत्तस्मादेतज्जयाय तवागमनं न युक्तमित्यर्थः ॥ क्षत्रिययूनः परीन्वतः क्ष्मां दीर्घायां शरदि त्वमस्य वोल्कः । परिपकेनाद्य नः शुभेनाः परिपक्कानि फलानि तत्कृतानि ॥ ११ ॥ ११. दीर्घायां बृहद्दिनायां शरदि शरत्काले क्षत्रिययूनो विशेपणकर्मधारये क्षत्रियतरुणस्य क्ष्मां परीन्वतः स्वामित्वेन व्याप्नुवतोस्य ग्राहारे: । वेति प्रश्नान्तरे । किमुत्कः स्नेहेनोत्कण्ठितः सन्नागाः । दीर्घायां शरदि निर्व्यापारस्य दिनेगच्छति ग्राहारेमित्रस्यै मिलनायोन्मनाः किमत्रागत इत्यर्थः । यद्येवं तर्हि । आ विस्मये । नोस्माकं परिपक्वेन परिपूर्ण निष्पन्नेन शुभेन पुण्यकर्मणा कृत्वा तत्कृतानि शुभनिष्पादितानि फलानि कार्याण्यद्य परिपक्कानि परिपूर्ण निष्पन्नानि । यदि मिलनाय तवागमनं तदातिश्रेयस्तममित्यर्थः ॥ । १ सी नावद्य. डी 'नावाद्य. १ बी बन्ध्यते. २ ए सी डी 'पेण वा ३ बी 'स्य मेल'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy