SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ है० २.३.७४.] चतुर्थः सर्गः। ३०३ स्यादयमतिबलिष्ठोस्मदाश्रितश्चेत्यस्मत्पार्शदात्मना सह लक्षं मित्रं कारयितुमिहागत इति । अस्याप्यागमकारणस्य परिहारानुक्तेयद्येतदर्थमिहागास्तदा युक्तमित्यनुमतिय॑ज्यते ॥ क्षपयितुमरिविग्रहं न आगा नु चतुर्हायनकं त्रिहायनं वा । सोरिदुरहो द्विषां न योग्यः सुचतुर्हायणकत्रिहायणाश्वः ॥९॥ ९. चतुर्हायनकं चतुर्वार्षिकं वा त्रिहायनं वा नोस्माकमरिविग्रहं शत्रुभिः सह विरोधं क्षपयितुं सख्येन शत्रूच्छेदाद्विनाशयितुम् । न्विति प्रश्ने । आगाः । परिहरति । स ग्राहारिद्विषां न योग्यो जेतुमशक्य इत्यर्थः । यतः शुभलक्षणाद्युपेतत्वेन शोभनाश्चतुर्हायणका अज्ञाताश्चतुर्वार्षिकानिहायणाश्चै तरुणा इत्यर्थः । अश्वा यस्य सः । एतेन सैन्यसंपदुक्ता । तथारीणां विनाशकत्वाइष्टमहररिदुरह्नः । अतिविक्रान्तश्चेत्यर्थः । तस्मादस्माकमरिविग्रहनिवृत्तये तवागमनं न युक्तमित्यर्थः । ग्रामणीः । अग्रणि । इत्यत्र "ग्राम" [१] इत्यादिना णः ॥ इषुवाहण । वीरवाहण । इत्यत्र “वाह्याद्वाहनस्य" [७२] इति णः ॥ वाह्यादिति किम् । करिवाहन ॥ अपराह्नः । इत्यत्र “अतोहस्य" [७३] इति णः ॥ अत इति किम् । दुरतः ॥ अब इत्यकारान्तनिर्देशादिह न स्यात् । दीर्घायाः ॥ चतुर्हायणक । त्रिहायण । इत्यत्र “चतुस्त्रेः[७४] इत्यादिना णः ॥ वयसीति किम् । चतुर्हायनकं विहायनं वारिविग्रहम् ॥ १ डी योग्यो जेतु. १ ए °तः श्वे. २ सी मित्रका. ३ सी डी श्च तुरणा. ४ सी रिकाह' ५ बी यणाश्वः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy