SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०२ व्याश्रयमहाकाव्ये [ मूलराजः] .. निर्वर्ण । प्रवण । अग्रेवण । अन्तर्वण । खदिरवण । कार्यवण । आम्रवण । शरवण । इक्षुवण । प्लक्षवण । पीयुक्षावण । इत्यत्र "निष्प्रान्तर" [६६] इत्यादिना णः ॥ ओषधि । माषवण माषवनम् । नीवारवेणे नीवारवन ॥ वृक्ष । शिग्रु. वण शिग्रुवने । बदरीवण । बदरीवने इत्यत्र "द्वित्रिस्वर” [६७] इत्यादिना वा णः ॥ द्वित्रिस्वैरेति किम् । सुरदारुवन ॥ ओषधिवृक्षेभ्य इति किम् । विदारीवन ॥ अनिरिकादिभ्य इति किम् । इरिकावनेषु ॥ गिरिणदी गिरिनद्याम् । इत्यत्र "गिरिनद्यादीनाम्" [६८] इति वा णः ॥ भाव । नीरपाणम् नीरपान । करणे । कषायपाण कषायपान । इत्यत्र "पानस्य' [६९] इत्यादिना वा णः ॥ सुरापाणसुराष्ट्रकेषु । इत्यत्र “देशे" [७०] इति नित्यं णः ॥ इषुवाहणवीरवाहणाग्रण्युदधिर्जतग्रामणीः श्रितो नः । करिवाहनयुग्दुनोति वः किं दीर्घाह्नयाः शरदो यथापराह्नः ॥८॥ ८. दीर्घाण्यहानि यस्यां तस्या दीर्घायाः शरदः शरत्कालस्यापराह्रोह्रोपरो भागोत्यन्तमुपतापकत्वेन यथा दुनोति तथा जर्तग्रामणीर्ज? देशविशेषस्तत्रत्या भटा वा तत्राधिपत्वेन ग्रामणी: प्रधानो लक्षाख्यो नृपः किं वो युष्मान्दुनोति सदास्कन्दनैः पीडयति । तेन तवात्रागमः । यत इपूणां शराणां वाहणा(ना)नि शकटोष्ट्रादीनि वीराणां भटानां वाहणा(ना)नि वीरवाहणानि रथाश्वादीनि । द्वन्द्वे तेषामग्रणीनि उत्कृष्टानि तेषामनेकानामाश्रयत्वादुधिरिवोदधिस्तथा करिणो यानि वाहनानि तैर्युनक्ति संबद्धीभवति यः सः । एतेन प्रधानचतुरङ्गसैन्यबाहुल्योक्तिः । तथा नोस्मान् श्रित आश्रितोस्मदायत्त इत्यर्थः । इदमुक्तं १ ए सी डी णः । प्र. २ सी वन ।. ३ बी स्वर इ. ४ ए सी डी न । औष'. ५ बी णः । नी. ६ ए सी डी हनानि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy