SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [है० २.३.६५.] चतुर्थः सर्गः । ३०१ अस्य चागमकारणस्य परिहाराभणनान्मृगयार्थं चेत्तवात्रागमस्तदा युक्तमित्यनुमतिय॑ज्यते ॥ यदुभिर्मधुनीरपानगोष्ठयामुत दुरभाषि कषायपाणहस्तैः । वचने हि कषायपानपाणेर्न सुरापाणसुराष्ट्रकेषु दोषः ॥ ७ ॥ ___७. मधु मद्यं तदेव प्राचुर्यात्प्रसन्नत्वाच्च नीरं जलं तस्य या पानगोष्ठयापानं तस्यां पीयतेनेन पानं पात्रं कषायस्य सुरभिरसस्य प्रस्तावान्मद्यस्य पानं चषको हस्ते येषां तैर्मद्यं पिबद्भिः सद्भिरित्यर्थः । यदुभि दिवैः । उतेति प्रश्ने । दुरभाषि किं दुष्टं किंचिदुक्तम् । अर्थात्तव । तेन तवात्रागमः । एतदपि परिहरति । सुराया मद्यस्य पानं येषु ते सुरापाणा ये सुराष्ट्रका मद्यपत्वादेव कुत्सिताः सुराष्ट्रदेशस्था जनास्तेषु कषायपानपाणेः सुरापात्रकरस्य मद्यपस्येत्यर्थः । वचने दुर्वाक्ये हि स्फुटं न दोषः । मद्यपवाक्ये हि विदुषामनास्थैवेत्येतद्धेतुकं त्वदागमनं तदानुचितमित्यर्थः।। अवतीर्णम् । प्रपुष्णन् । अगृणात् ॥ व्यवधानेपि । कारणम् । रिपूणाम् । कषण । अवृक्ण । इत्यत्र “रपृवर्णात्" [१३] इत्यादिना णः ॥ रघुवर्णादिति किम् । वन ॥ एकपद इति किम् । अन्तर्नर ॥ पद इत्येतावतैवैकपदे लब्ध एकग्रहणं नियमार्थम् । एकमेव यन्नित्यं तत्र यथा स्यात् । यदेकं चानेकं च तत्र मा भूत् । नरनाथम् ॥ अनन्त्यस्येति किम् । पुष्णन् ॥ लादिवर्जनं किम् । अविरलेन । वर्जन । किरीटिनः । विकर्तन । कर्शन । रसेन ॥ गुणसम् । इत्यत्र "पूर्वपद” [६४] इत्यादिना णः ॥ अग इति किम् । ऋगयन ॥ दुर्णसैः । इत्यत्र "नसस्य" [६५] इति णः ॥ १ सी गोष्ठया त° डी गोष्टी त . २ ए सी डी किंत्रि. ३ बी ता सु. ४ बी के चेदा. ५ ए सी डीर्ण । प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy