________________
३००
व्याश्रयमहाकाव्ये
[मूलराजः]
खदिरवणाग्रेवणस्थपीयुक्षावणकार्यवणस्थितैर्नृपैनः । प्लक्षवणगतैश्च विद्रवः किं शरवणशिवणेश्वरैश्च चक्रे ॥ ४ ॥
४. स्पष्टम् । किं तु पीयुक्षा द्राक्षा । कार्याः शालाख्या वृक्षाः । खदिरवणं चाग्रेवणं च तत्स्थाश्च ते पीयुक्षावणकार्यवणस्थिताश्च तैर्नोस्माकं नृपैर्विद्रवः उपद्रवः । शिग्रुः शोभाञ्जनः ॥ बदरीवणवन्न कण्टकास्ते शिवने बदरीवने च नोत्र । माषवणान्वेषको न नीवारवणे माषवेनं लभेत जातु ॥५॥
५. यथा बदरीवणे कण्टकास्तीक्ष्णाग्रा बदर्यवयवा भवन्ति तथात्रास्मिन्नोस्माकं शिवने बदरीवने चोपलक्षणत्वात्खदिरवनादिषु च ते तव कण्टकाः शत्रवो न भवन्ति । दृष्टान्तमाह । माषवणान्वेषक: पुमानीवारवणे वनव्रीहिवनमध्ये जातु कदाचिदपि न माषवनं लभेत । एवमस्माकं युष्मन्मित्राणां वनेषु युष्मच्छत्रवो न सन्त्यतः खदिरवणादिवनस्थास्मन्नृपकृतोपद्रवस्याभावादयमागमने न हेतुरित्यर्थः ।। नीवारवनोल्लसद्विदारीवनसुरदारुवनेरिकावनेषु । गिरिणद्यतिरंहसा मृगव्ये गिरिनद्यां नु सुनीरपाणमागाः ॥६॥
६. उल्लसद्विदारीवनमुद्यच्छालपर्णीलताविशेषवनम् । सुरदारुवनं देवदारुवनम् । इरिकावनमोषधिविशेषवनम् । द्वन्दे तेष्वाधारेषु मृगव्य आखेटार्थम् । न्विति पृच्छायाम् । आगा आगतोसि । केन कृत्वा । गिरिणद्यतिरहंसा पर्वतोद्भूतापगावदतिवेगेन । कथम् । गिरिनद्यां जम्बूमाल्यां शोभनं नीरपाणं जलपानं यत्रागमने तद्यथा स्यादेवम् ।
१ बी सी पैन।. २ ए सी वणं ल.
१ बी लाक्षा वृ. २ बी न सन्ति. ३ ए सी ताचवि. ४ बी नमौष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org