SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ [है० २.३.६३.] चतुर्थः सर्गः । रीटिनोर्जुनेतुल्यस्य सोपि च विकर्तनाभः शौर्यप्रतापादिगुणैरादित्यसमः । भवति ह्युत्तमानामुत्तमेष्वनुरागः ॥ तदेवं मूलराजागमकारणजिज्ञासया स्वव्यापारण उक्तेपि राज्ञि स्वागमकारणमवदति स्वयमेवं वितर्क्यागमकारणानि पृच्छन्सामोक्त्या परिहरंश्च वृत्तदशकमाह । ऋगयनपठनेन दुर्णसैस्तैः प्रवणान्तर्वणनिर्वणोषितैः किम् । चलितोसि मृषा द्विजैब्रुवाणैराम्रवणेक्षुवणानि नः खनद्भिः ॥ ३ ॥ ४ ३. तैर्ग्राहार्युपदुतैर्मृषा ब्रुवाणैर्निरपराधा वयं ग्राहारिणोपद्रुता इत्यलोकवादिभिः सद्भिर्द्विजैः किं चलितोसि चलन्प्रयुक्तस्त्वं तेन तेत्रागम इत्यर्थः । इदं चागमकारणं मृषा श्रवाणैरिति विशेषणेनैवायुक्तमिति परिहृतम् । नन्वमी कमपराधं चक्रुर्यन्मृषा ब्रुवाणा उच्यन्त इत्याह । प्रवणान्तर्वणनिर्वणनामानि यानि वनानि । यद्वा । प्रकृष्टानि वनानि प्रवणानि । अन्तर्मध्ये वनान्यन्तर्वणानि । निश्चितानि वनानि निर्व णानि । द्वन्द्वे तेषूषितैः स्थितैः सद्भिर्नोस्माकमाश्रवणेक्षुवणानि खनद्भिः । यत ऋगयनपठनेन ऋचः सामिधेन्यः । यकाभिः समिधोग्नावाधीयन्ते । तासामयनमृगयनं वैदिको ग्रन्थस्तत्पाठेन दुर्णसैर्विकृतनासिकैः । अनेन द्विजानामग्नौ समिदाधानं सूचितम् । तत्रावश्यमृगयनपाठात् । ऋगयनपाठेन पलाशाश्वत्थप्रायस्यैव सभिधोग्नावाधीयन्त इति श्रुतिरित्येते पलाशप्रायस्यैव समिध ऋगयनपठनेनाग्नौ जुह्वति । परं तत्प्रसङ्गेनास्मदाश्रवणेक्षुवणानि खनन्तीत्येते पराधिन इत्यर्थः ॥ १ सी मन . १ ए सी डी नस्य २ बी डी वर्णानि. ५ बी 'मिवाधा'. २९९ Jain Education International पारेण उ° ३ बी व वितवर्य वि. ४ ए सी ६ ए 'स्यैवं स ं. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy