________________
३१०
ब्याश्रयमहाकाव्ये [मूलराजः] इत्यर्थः । तत्तस्मादलमत्यर्थ त्वत्प्रणिदिष्टं प्रत्युत्तरादानात्त्वया ज्ञापितमन्तश्छलेप्रकरणं प्रैनिदेष्टुं ग्राहारेापयितुमेषोहं यामि । “सस्सामीप्ये सद्वद्वा" [५. ४. १.] इति वर्तमाना । अधुनैवाहं यास्यामीत्यर्थः । कीडक्सन् । अभीक्ष्णं प्रणिपचसि त्वं मदीयं मनः स त्वमेवं विवक्षसे नाहं प्रणिपापच्ये किं तु स्वयमेव प्रणिपापचत् । अत्र यङ्गुबन्तस्य धात्वन्तरत्वाद् "एकधातौ” [ ३. ४. १७.] इत्यादिना कर्मकर्तर्यात्मनेपदायभावः । खयमभीक्ष्णं सन्ताप्यमानं मनो यस्य सः ॥
ङकारोपलक्षितो माङ् मा । तेन माँझेडोग्रहणम् । परिणिमिमीते । प्रणिमयते । दासंज्ञ । प्रणिदायके । ददातेर्यच्छतेर्वा रूपम् ॥ प्रणिदयते । प्रणिधति । प्रणिधि । प्रणिधयति ॥ पतादि । प्रणिपातिषु । प्रणिपद्यसे । प्रणिनादि । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशान्त । प्रणिचायि । प्रणियासि । प्रणिवात्। अप्रणिद्रे । प्रणिप्सान् । मा म प्रणिष्यः। प्रणिनन् । प्रणिदिग्ध । अन्तरः खल्वपि । अन्तर्घ्यदधाः। इत्यत्र “ने दा" [७९] इत्यादिना नेणः॥अडागमस्य धात्ववयवत्वेन व्यवधायकत्वाभावादन्तर्घ्यदधा इत्यादावपि स्यात् ॥ अदुरित्येव । दुर्निगदम् ॥
प्रणिजल्पितेन प्रनिजल्प । प्रणिपापचत् प्रनिपापचन् । इत्यत्र “अकखादि [८०] इत्यादिना वा णः ॥ अकखादीति किम् । प्रैनिकुर्वन् । निखेलतु ॥ अषान्त इति किम् । प्रनिद्विद ॥ पाठ इति किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिचक्रे । प्रनिचिखनिषता ॥ इह च मा भूत् । प्रणिदिष्टम् प्रनिदेष्टुम् ॥ यपि नेच्छन्त्येके । तन्मते प्रनिपापचदित्याद्येव स्यात् ॥
१ए सी डी न्तस्थल. २ बी लक'. ३ डी प्रतिदे. ४ सी माझे. ५ डी णिधि. ६ सी णिया . ७ बी डी वान् । अ. ८ ए बीत्र "नै . ९ सी डी प्रतिकु. १० सी डी प्रतिखे. ११ सी प्रणिदे. डी प्रतिदे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org